________________
४३७
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् आश्रितो, मोक्ष एव मया साध्य इत्याशयी, अष्टविधकर्मणां ग्रन्थिरिव ग्रन्थिर्दुर्भेदतया, तं निर्जरयति, क्षपक श्रेणिप्रतिपत्त्या क्षपयति ॥३१॥
विविक्तशयनासनतायां विनिवर्त्तना स्यादिति तामाह
विणिवट्टणयाए णं भंते जीवे किं जणयइ ? विणिवट्टणयाए णं पावकम्माणं अकरणयाए अब्भुढेइ, पुव्वबद्धाण य निज्जरणया तं नियत्तेइ, तओ पच्छा चाउरंतं संसारकंतारं वीईवयइ ॥३२॥
व्याख्या हे भदन्त ! विनिवर्त्तनया जीवः किं जनयति ? गुरुराह हे शिष्य ! विनिवर्त्तनया विषयेभ्य आत्मनः पराङ्मुखीकरणेन पापकर्मणां सावद्यानुष्ठानानां अकरणतया, न मया पापानि कार्याणि इत्यभ्युत्तिष्ठते, धर्मं प्रत्युत्सहते, यद्वा मोक्षायाऽभ्युत्तिष्ठते, पूर्वबद्धानां निर्जरणया, नवानां च अनादानेन तत्पापकर्म निवर्त्तयति क्षपयति, ततश्च पश्चाच्चातुरन्तसंसारकान्तारं व्यतिव्रजति व्युत्क्रामतीत्यर्थः ॥३२॥
विषयनिवृत्तश्च कोऽपि सम्भोगप्रत्याख्यानवान् स्यादिति तदाह
संभोगपच्चक्खाणेणं भंते जीवे किं जणयइ ? संभोगपच्चक्खाणेणं आलंबणाई खवेइ, निरालंबणस्स य आयतट्ठिया जोगा भवंति, सएणं लाभेणं संतुस्सइ, परलाभं नो आसाएइ, नो तक्केइ, नो पीहेइ, नो पत्थेइ, नो अहिलसइ, परस्स लाभं अणासाएमाणे अतक्केमाणे अपीहेमाणे अपत्थेमाणे अणभिलसमाणे दोच्चं सुहसेज्जं उवसंपज्जित्ताणं विहरइ ॥३३॥
व्याख्या-हे भदन्त ! सम्भोगप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह हे शिष्य ! सङ्करेण स्वान्यलाभमिलनेन भोगः सम्भोगः, एकमण्डलीभोक्तृत्वं, तस्य प्रत्याख्यानं, गीतार्थत्वे जिनकल्पाद्युद्यतविहारप्रतिपत्त्या परिहारस्तेनालम्बनानि ग्लानतादीनि क्षपयति तिरस्कुरुते । सदोद्यतत्वेन वीर्याचारमेवालम्बते, तस्य आततार्थिका मोक्षप्रयोजना योगा व्यापारा भवन्ति, स्वकेन लाभेन स सन्तुष्यति, परस्य लाभं नास्वादयति न वाञ्छयति, न तर्कयति मनसा न विकल्पयति, न स्पृहयति, न प्रार्थयति, नाभिलषति, तत्र तर्कणं मनसा यदिदं मह्यमसौ ददातीति विकल्पनं, स्पृहणं तत् श्रद्धालुतयाऽात्मन आविःकरणं, प्रार्थनं वाचा मह्यं देहीति याचनं, अभिलषणं तल्लालसतया वाञ्छनं, एकाथिकान्येतानि नानादेशविनेयानुग्रहायोपात्तानि, परस्य लाभमनाशयमान आशाविषय
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org