SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनदीपिकाटीका - २ व्याख्या-हे भदन्त ! सुखशायितया जीवः किं जनयति ? गुरुराह हे शिष्य ! सुखशायितयेति सुखं शेते प्रवचन १ परलाभ २ कामभोग ३ देहसम्बन्ध ४ स्पृहाख्यास्वशुभभावरूपासु चतसृषु सुखशय्यासु स्थितत्वेन मनः खेदाऽभावान्निराकुलतयास्ते इति सुखशाय:, तद्भावः सुखशायिता, प्राकृतत्वात् सूत्रे यलोपः, तयाऽनुत्सुकत्वं परलाभदिव्यनृकामभोगनि:स्पृहत्वमित्यर्थः । यद्वा सुखस्य वैषयिकस्य शातस्तद्गतस्पृहानिवारणेनापयनयनं, तेन अनुत्सुकत्वं विषयेषु निस्पृहत्वं अनु सह कम्पते इत्यनुकम्पकः, सुखोत्सुको हि म्रियमाणमपि परं दृष्ट्वा स्वसुखरसिक एव स्यात्, अयं तु दुःखितं परं दृष्ट्वा तद्दुःखदुःखितया स्वयमपि कम्पते, अनुद्भटोऽनुल्बणो विगतशोको, नैहिकार्थभ्रंशेऽपि शोचते, मुक्तिबद्धस्पृहत्वात् एवं प्रकृष्टाध्यवसायतश्चारित्रमोहनीयं कर्म क्षपयति ||२९|| ४३६ " सुखशय्यास्थितस्याऽप्रतिबद्धता स्यात् इति तामाह अप्पडिबद्धयाए णं भंते जीवे किं जणयइ ? अप्पडिबद्धयाए णं निस्संगत्तं जणयइ, निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया वा राउ वा असज्जमाणो अप्पडिबद्धयाए वि विहरड़ ||३०|| , व्याख्या - हे भदन्त ! अप्रतिबद्धतया जीवः किं जनयति ? गुरुराह हे शिष्य ! अप्रतिबद्धतया निरभिष्वङ्गतया जीवो निःसङ्गत्वं बहिःसङ्गाऽभावं जनयति ? तेन च स जीव एकोऽराग एकाग्रचित्तो धर्मैकतानमना दिवसे वा रात्रौ वा असजन् बहिःसङ्गं त्यजन् अप्रतिबद्धतया विहरति । विशेषतोऽप्रतिबद्धो मासकल्पाद्युद्यतविहारेण पर्यटति ॥३०॥ अप्रतिबद्धता विविक्तशयनासनतायां स्यादतस्तामाह Jain Education International 2010_02 विवित्तसयणासणसेवणयाए णं भंते जीवे किं जणयइ ? विवित्तसयणासणसेवणयाए चरित्तगुतिं जणयइ, चरित्तगुत्ते य णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खे भावपडिवण्णे अट्ठविहकम्मगंठि निज्जरेइ ॥३१॥ व्याख्या–हे भदन्त ! विविक्तशयनासनसेवनया जीवः किं जनयति ? गुरुराह हे शिष्य ! विविक्तानि स्त्र्याद्यसंसक्तानि शयनासनानि उपाश्रयश्च यस्य स विविक्तशयनासनस्तस्य भावो विविक्तशयनासनता, तया जीवश्चरणगुप्तिं चरणरक्षां जनयति व्यत्ययाद् गुप्तचरित्रश्च विविक्तो विकृत्यादिबृंहकवस्तुरहित आहारो यस्य सः, गुप्तचरित्रो हि सर्वत्र निस्पृह एव स्यात्, दृढचरित्रः, एकान्तेन रतः संयमे, मोक्षे भावेनान्त: करणेन प्रतिपन्न For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy