________________
४३५
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
सा चैकाग्रमनःसन्निवेशनादेव भवत्यतस्तामाह
एगग्गमणसंणिवेसणयाए णं भंते जीवे किं जणयइ ? एगग्गमणसंणिवेसणयाए णं चित्तनिरोहं करेइ ॥२५॥
व्याख्या हे भदन्त ! एकाग्रमनःसन्निवेशनया जीवः किं जनयति ? गुरुराह हे शिष्य ! एकमग्रं शुभमालम्बनमस्येत्येकाग्रं, तच्च तन्मनश्च, तस्य सन्निवेशना स्थापना, तया एकाग्रमनःसन्निवेशनया चित्तनिरोधं, चित्तस्येतस्तत उन्मार्गितस्य नियन्त्रणं चित्तनिरोधं जनयति ॥२५॥
एकाग्रस्यापि संयमादेवेष्टफलाप्तिरिति तमाहसंजमेणं भंते जीवे किं जणयइ, संजमेणं अणण्हत्तं जणयइ ॥२६॥
व्याख्या-हे भदन्त ! संयमेन जीवः किं जनयति ? गुरुराह हे शिष्य ! संयमेन पञ्चाश्रवविरत्या 'अणण्हय'त्ति अनन्हस्कत्वं अविद्यमानबद्ध्यमानकर्मत्वं करोति ॥२६॥
संयमिनोऽपि न तपो विना कर्मक्षय इति तदाहतवेणं भंते किं जणयइ ? तवेणं वोयाणं जणयइ ॥२७॥
व्याख्या हे भदन्त ! तपसा जीवः किं जनयति ? गुरुराह हे शिष्य ! तपसा जीवो व्यवदानं पूर्वबद्धकर्मक्षयतो विशिष्टां शुद्धिं जनयति ॥२७॥
व्यवदानस्यैव फलमाह
वोयाणेणं भंते जीवे किं जणयइ ? वोयाणेणं अकिरियं जणयइ, अकिरियाए भवित्ता तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ॥२८॥
व्याख्या हे भदन्त ! व्यवदानेन जीवः किं जनयति ? गुरुराह हे शिष्य ! व्यवदानेन जीवोऽक्रियं व्युपरतक्रियाख्यं शुक्लध्यानतुर्यभेदं जनयति, अक्रियाको भूत्वा सिद्धयति निष्ठितार्थो भवति, बुद्ध्यते ज्ञानदर्शनाभ्यां वस्तुतत्वं, मुच्यते संसारात् , अत एव परिनिर्वाति कर्माग्नि निर्वाप्य शीतलो भवति, सर्वदुःखानां चान्तं करोति ॥२८॥
व्यवदानं सुखशायितायामेवातस्तामाह
सुहसायाए णं भंते जीवे किं जणयइ ? सुहसायाए णं अणुस्सुयत्तं जणयइ, अणुस्सुए णं जीवे अणुकंपे अणुब्भडे विगयसोगे चरित्तमोहणिज्जं कम्मं खवेइ ॥२९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org