________________
४३४
श्रीउत्तराध्ययनदीपिकाटीका-२ अप्पपएसआउ पकरेइ' तत्र बहुकर्मप्रदेशकाः प्रकृतीरल्पप्रदेशकाः कुर्यादिति । आयुर्वर्जाः सप्तेत्युक्ति: शुभायुष एव संयतस्य सम्भवात् , न च शुभभावेन शुभप्रकृतीनां शिथिलतादि करणं, आयुःकर्मस्याद्वध्नाति, त्रिभागादिशेषायुष्कतायामेव तद्बन्धात् , तस्य च कादाचितकत्वे विवक्षितत्वात् , कस्यचिन्मक्तिप्राप्तेर्वा असातवेदनीयं कर्म, चादन्याश्चाऽशुभप्रकृती! नैव भूयो भूय उपचिनोति बध्नाति, भूयोग्रहणं त्वन्यतमप्रमादतः प्रमत्तसंयतस्स तद्वन्धस्यापि सम्भवात् । (पाठान्तरे-सायावेयणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिणाइ) अनादिकं आदेरभावात् , चः समुच्चयार्थे, अनवगच्छदग्रं परिमाणं यस्य, सदावस्थितानन्तपरिमाणवत्त्वेन, सोऽयमनवदग्रोऽनन्त इत्यर्थः, तं, प्रवाहापेक्षं चैतत् , अत एव दीर्घोऽध्वा तत्परिभ्रमणहेतुकर्मरूपो मार्गो यस्मिंस्तद्दीर्घाध्वं, मः अलाक्षणिकः, दीर्घावं दीर्घकालं वा, चत्वारश्चतुर्गतिलक्षणा अन्ता अवयवा यस्मिस्तच्चतुरन्तसंसारकान्तारं क्षिप्रमेव व्यतिव्रजते, विशेषेणातिक्रामति मुक्तिं याति ॥२२॥
अभ्यस्त श्रुतेन च धर्मकथापि कार्येति तामाह
धम्मकहाए णं भंते जीवे किं जणयइ ? धम्मकहाए णं पवयणं पहावेइ, पवयणपहावएणं जीवे आगमेसिस्सभद्दत्ताए कम्मं निबंधइ ॥२३॥
व्याख्या हे भदन्त ! धर्मकथया जीवः किं जनयति ? गुरुराह हे शिष्य ! धर्मकथया व्याख्यानरूपया जीवः प्रवचनं प्रभावयति प्रकाशयति । (पाठान्तरे"णिज्जरां जणयइ'-निर्जरां जनयति ।) आगमिष्यदित्यागामिकालभावि भद्रं यस्मिस्तत्तथा तस्य भावस्य तयाऽगमिष्यद्भद्रतया, यद्वा आगम आगामिकालस्तस्मिन् , शश्वद्भद्रतयोपलक्षितं कर्म बध्नाति शुभानुबन्धि ।।२३।।
इत्थं पञ्चधा स्वाध्यायरतेन श्रुतमाराधितं स्यात्तत्तदाराधनोच्यते
सुयस्स आराहणयाए णं भंते जीवे कि जणयइ ? सुयस्स आराहणयाए णं अण्णाणं खवेइ, न य संकिलिस्सइ ॥२४॥
व्याख्या हे भदन्त ! श्रुतस्याराधनया जीवः किं जनयति ? गुरुराह हे शिष्य ! श्रुतस्याराधनया सम्यगासेवनयाऽज्ञानं जीवः क्षपयति, न च सक्लिश्यते, रागादिजनितसङ्क्लेशाऽभावात् , तद्वशतो नवनवसंवेगाऽवाप्तेः, यतः
जह जह सुयमवगाहइ, अइसयरसपसरसंजुयमपुव्वं । तह तह पल्हाअइ मुणी, नवनवसंवेगसद्धाए ॥१॥ [प.व./गा.५६०] ॥२४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org