SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ४३३ तदुभयानि च विशोधयति, संशयादिमालिन्यहानेन विशुद्धानि कुरुते, काङ्क्षा इदमित्थं वा स्यादिति चिन्ता, सैव मोहयतीति मोहनीयं कर्म अनभिग्रहिकमिथ्यात्वरूपतां छिनत्ति ॥२०॥ विशोधितस्यापि सूत्रस्य कर्मक्षयाय परावर्त्तनामाह परियट्टणाए णं भंते जीवे किं जणयइ ? परियट्टणाए णं वंजणाई जणयइ, वंजणलद्धि च उप्पाएइ ॥२१॥ व्याख्या-हे पूज्य ! परावर्तनया जीवः किं जनयति ? गुरुराह हे शिष्य ! परावर्त्तनेति सिद्धान्तस्य गुणनं, तया जीवो व्यञ्जनान्यक्षराणि जनयत्युत्पादयति, तानि गलितान्यपि गुणयतस्तस्य झगित्युत्पतन्तीत्युत्पादितानि भवन्तीत्यर्थः, तथैव क्षयोपशमतो व्यञ्जनलब्धि च पदानुसारितालक्षणां उत्पादयति ।।२१।। सूत्रेऽर्थश्चिन्त्य इत्यनुप्रेक्षामाह अणुप्पेहाए णं भंते जीवे किं जणयइ ? अणुप्पेहाए णं आऊयवज्जाओ सत्तकम्मपयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्ठिईयाओ हस्सकालट्ठिईयाओ पकरेइ, तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ, बहुप्पएसग्गाओ अप्पपएसग्गाओ पकरेइ, आऊयं च णं कम्मं सिय बंधइ, सिय णो बंधइ, असायावेयणिज्जं च कम्मं नो भुज्जो भुज्जो उवचिणइ, अणाईयं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीईवयइ ॥२२॥ ___ व्याख्या हे भदन्त ! अनुप्रेक्षया जीवः किं जनयति ? गुरुराह हे शिष्य ! अनुप्रेक्षेति सूत्रार्थचिन्तनिका, तया आयुर्वर्जाः सप्तकर्मप्रकृती:, 'धणियंति बाढं बन्धनं श्लेषणं, तेन बद्धा निकाचिता इत्यर्थः, शिथिलबन्धनबद्धाः, कोऽर्थः ? अपवर्तनादिकरणयोग्याः प्रकरोति, तपोभेदत्वादस्याः, तपसश्च निकाचितक्षपणेऽपि क्षमत्वात् , उक्तं च-"तवसा उ निकाइयाणं च" ताश्च दीर्घकालस्थितिका ह्रस्वकालस्थितिकाः करोति, शुभाध्यवसायवशात् , स्थितिखण्डकापहारेण, एतच्चैवं सर्वकर्मणां दीर्घस्थितेरशुभत्वात् , नृतिर्यक्देवायुषां तु न, यतः सुहअसुहाणं ठिईओ, असुहाओ संकिलेसओ जमई । हस्साओ विसोहीए, सुरनरतिरियाउए मोत्तुं ॥१॥[ ] अशुभप्रकृतयस्तीवानुभावाश्चतुःस्थानिकरसत्वे मन्दानुभावाः, त्रिस्थानिकरसत्वाद्यापादने ज्ञेयाः, शुभभावस्तु शुभाशुभतीव्रानुभावः स्यात् , क्वचिदिदं दृश्यते–'बहुपएसग्गाओ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy