________________
४३२
श्रीउत्तराध्ययनदीपिकाटीका-२ मैत्रीभावा परिहितचिन्तामुत्पादयति, तामुपगतश्च जीवो भावविशुद्धि रागद्वेषविगमं कृत्वा निर्भय इहपरलोकाद्यनेकभयविमुक्तो भवति ॥१७||
एवं गुणाढ्येन स्वाध्याये यतितव्यमिति तमाह
सज्झाएणं भंते जीवे किं जणयइ ? सज्झाएणं णाणावरणिज्जं कम्मं खवेइ ॥१८॥
व्याख्या हे भदन्त ! स्वाध्यायेन जीवः किं जनयति ? गुरुराह हे शिष्य ! स्वाध्यायेन जीवो ज्ञानावरणीयं कर्म शेषं च कर्म क्षपयति । यतः
कम्ममसंखिज्जभवं, खवेइ अणुसमयमेव आउत्तो ।
अन्नयरंमि वि जोए, सज्झायंमि विसेसेण ॥१॥ [य.च./गा.६] ॥१८॥ तत्रादौ वाचना कार्येति तामाह
वायणाए भंते जीवे किं जणयइ ? वायणाए णं निज्जरं जणयइ, सुयस्स अणुसज्जयाए अणासायणाए वट्टइ, सुयस्स य अणुसज्जणयाए अणासायणाण वट्टमाणे तित्थधम्मं अवलंबइ, तित्थधम्म अवलंबमाणे महाणिज्जरे महापज्जवसाणे भवइ ॥१९॥
व्याख्या-हे भदन्त ! वाचनया जीवः किं जनयति ? गुरुराह हे शिष्य ! वाचना पाठनं, तया जीवो निर्जरा कर्मपरिशाटं जनयति, तथैव श्रुतस्याऽनाशातनायां च वर्त्तते, तदकरणे ह्यवज्ञातः श्रुतमाशातितं भवेत् (पाठान्तरे-'तं अणुसज्जणाए वट्टइ'त्ति तत्रानुषञ्जनमनुवर्त्तनं तत्र वर्त्तते) कोऽर्थः ? व्यवच्छेदं करोति, ततः श्रुतस्याऽनाशातनायामनुषञ्जने वा वर्त्तमानस्तीर्थं गणधरस्तस्य धर्ममाचारं श्रुतदानं तीर्थधर्मं, यद्वा तीर्थं श्रुतं तद्धर्मं च स्वाध्यायं अवलम्बते सेवते, तमवलम्बमानश्चाश्रयन् महती कर्मविषया निर्जराऽस्येति महानिर्जरो, महत्प्रशस्यं मुक्त्याप्त्या पर्यवसानमन्तः कर्मणो भवस्य वा यस्य स महापर्यवसानश्च भवति ॥१९॥
कृतवाचनः संशये पुनः पृच्छतीति पृच्छनामाह
पडिपुच्छणाए णं भंते जीवे किं जणयइ ? पडिपुच्छणाए णं सुत्तत्थतदुभयाइं विसोहेइ, कंखामोहणिज्जं च कम्मं वोच्छिदइ ॥२०॥
व्याख्या हे भदन्त ! प्रतिपृच्छनया जीवः किं जनयति ? गुरुराह हे शिष्य ! प्रतिपृच्छनेति पूर्वं कथितस्य सूत्रादेः पुनः पृच्छनं प्रतिपृच्छना, तया जीवः सूत्रार्थं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org