SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ४३१ व्याख्या-हे भदन्त ! काले प्रतिलेखनया जीवः किं जनयति ? गुरुराह हे शिष्य! कालः प्रादोषिकादिस्तत्प्रत्युपेक्षणाऽागमविधिना यथावन्निरूपणा, ग्रहणप्रतिजागरणे, तया ज्ञानावरणीयं कर्म क्षपयति ॥१५॥ अकालपाठे प्रायश्चित्तं कार्यमिति तत्करणमाह पायच्छित्तकरणेणं भंते जीवे किं जणयइ ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणयइ, निरईयारेयावि भवइ, सम्मं च पायच्छित्तं पडिवज्जमाणे मग्गं मग्गफलं च विसोहेइ, आयारं च आयारफलं आराहेइ ॥१६॥ ___ व्याख्या-हे भदन्त ! प्रायश्चित्तकरणेन जीवः किं जनयति ? गुरुराह हे शिष्य ! प्रायश्चित्तं जीवं शोधयति, पापं छिनत्तीति वा प्रायश्चित्तं पापच्छिद्वा, तत्र प्रायश्चित्तमालोचनादि, तस्य करणेन पापकर्मविशुद्धि निःपापतां जीवो जनयति । निरतिचारश्चापि भवति, उत्पद्यमानदोषत्यागात् , सम्यक् प्रायश्चित्तं प्रतिपद्यमानो मार्ग ज्ञानाप्तिहेतुसम्यक्त्वं मार्गफलं च ज्ञानं, दीपप्रकाशयोरिव युगपदुत्पत्तावपि, सम्यक्त्वस्य ज्ञानहेतुत्वात् विशोधयति निर्मलीकुरुते, आचारं च चारित्रं आचारफलं च आराधयति, यद्वा मार्ग चारित्राप्तिहेतोर्दर्शनज्ञानाख्यं, तत्फलं च चारित्रं, तत आचारं च ज्ञानाचारादि, तत्फलं च मोक्षमाराधयति । अथवा मार्गं च मुक्तिमार्ग क्षायोपशमिकं दर्शनादि, तत्फलं च तदेव प्रकर्षावस्थं क्षायिकदर्शनादि आराधयति ॥१६।। प्रायश्चित्तं क्षामणायाः स्यादिति तामाह खमावणाए णं भंते जीवे किं जणयइ ? खमावणाए णं पल्हायणभावं जणयइ, पल्हायणभावगए य सव्वपाणभूयजीवसत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुवगए यावि जीवे भावविसोहिं काऊण निब्भए भवइ ॥१७॥ व्याख्या-हे भदन्त ! क्षामणया जीवः किं जनयति ? गुरुराह क्षामणया जीवो दुःकृतादनु क्षन्तव्यमिदं ममेत्यादिना प्रह्लादनभावं चित्तप्रसत्तिं जनयति । तद्गतश्च सर्वे प्राणा द्वित्रिचतुरिन्द्रियाः, भूतास्तरवः, जीवाः पञ्चेन्द्रियाः, सत्त्वाः शेषजीवास्तेषु, यतः प्राणाद्वित्रिचतुः प्रोक्ता, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy