________________
४२८
श्रीउत्तराध्ययनदीपिकाटीका-२ ___ पडिक्कमणेणं भंते जीवे किं जणयइ ? पडिक्कमणेणं च तच्छिदाई पिहेइ, पिहियवयच्छिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिए विहरइ ॥११॥
व्याख्या हे भदन्त ! प्रतिक्रमणेन जीवः किं जनयति ? गुरुराह हे शिष्य ! प्रतिक्रमणेनाऽपराधेभ्यः प्रतीपनिवर्त्तनेन जीवो व्रतानां छिद्राण्यतीचारान् पिदधाति, पिहितव्रतच्छिद्रश्च जीवो निरुद्धाश्रवोऽहिंसादिभावोऽशबलं शबलस्थानैरकर्बुरीकृतं चारित्रं यस्य सोऽष्टप्रवचनमातृपयुक्तः सन् , नास्ति पृथक्त्वं संयमयोगेभ्यो वियुक्तत्वं स्वरूपं यस्याऽसावपृथक्त्वः , सुप्रणिहितः सुष्ठसंयमे प्रणिधानवान् (पाठान्तरेसुप्रणिहितेन्द्रियः सन्मार्गस्थापितेन्द्रियो) विहरति ॥११॥
अथातीचारशुद्ध्यर्थं कायोत्सर्गः कार्य इति तमाह
काउसग्गेणं भंते जीवे किं जणयइ ? काउसग्गेणं तीयपडुप्पन्नं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते य जीवे निव्वुयहियए उहरियभर व्व भारवहे पसत्थज्झाणोवगए सुहं सुहेणं विहरइ ॥१२॥
__ व्याख्या हे भदन्त ! कायोत्सर्गेण जीवः किं जनयति ? गुरुराह हे शिष्य ! कायोत्सर्गेण जीवोऽतीतं चिरकालीनं प्रत्युत्पन्नमिव प्रत्युत्पन्नं, वाऽासन्नकालभवं प्रायश्चित्तमिति प्रायश्चित्ताहमतीचारं विशोधयति, विशुद्धप्रायश्चित्तस्तु जीवो निर्वृतं स्वस्थीभूतं हृदयमस्येति निर्वृतहृदयः, अपहृतो भर इति भारो यस्मात् सोऽपहृतभरः, स इव भारवहो वाहिकादिरिव, भारप्राया अतीचारास्तै रहितो यथा स्यात्तथा, सद्धर्मध्यानोपगतः प्रशस्तध्यानी सुखंसुखेन सुखपरम्पराप्त्या विहरति, इहपरलोकयोरवतिष्ठति, इहैव तन्मुक्त्यवाप्तेरित्यर्थः ॥१३॥
एवमप्यशुद्ध्यमाने प्रत्याख्यानं कार्यमिति तदाह
पच्चक्खाणेणं भंते जीवे किं जणयइ ? पच्चक्खाणेणं आसवदाराई निरंभइ, पच्चक्खाणेणं इच्छानिरोहं जणयइ, इच्छानिरोहं गएणं जीवे सव्वदव्वेसु विणीयतण्हे सीयलभूए विहरड् ॥१३॥
___ व्याख्या हे भदन्त ! प्रत्याख्यानेन जीवः किं जनयति ? गुरुराह हे शिष्य ! प्रत्याख्यानेन मूलोत्तरगुणप्रत्याख्यानरूपेण, तत्रोत्तरगुणप्रत्याख्यानं नमस्कारसहितादिप्रत्याख्यानकरणादिना आश्रवद्वाराणि जीवो निरुणद्धि, तथैव प्रत्याख्यानेन जीव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org