________________
४२७
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् कर्मबन्धहेतुभ्यो योगेभ्यो निवर्त्तते, प्रशस्तयोगांस्तु प्रतिपद्यते । प्रतिपन्नप्रशस्तयोगस्त्वनगारोऽनन्तविषयतयाऽनन्ते ज्ञानदर्शने घ्नन्तीत्येवंशीला अनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मणां परिणामान् क्षपयति, मुक्तिं चाप्नोतीति सर्वत्राऽनुक्तमपि ज्ञेयं तदर्थत्वात् सर्वप्रयासस्य ॥७॥
आलोचनादीनि सामायिकवत एव तत्त्वतः स्युरिति तदुच्यते
सामाइएणं भंते जीवे किं जणयइ ? सामाइएणं सावज्जजोगविरई जणयइ ॥८॥
व्याख्या हे भदन्त ! सामायिकेन जीवः किं जनयति ? गुरुराह-सामायिकेन सावद्ययोगविरतिं कर्मबन्धहेतुव्यापारोपरमं जनयति, तद्विरतिसहितस्यैव सामायिकसम्भवात् , न चैवं तुल्यकालत्वेनाऽनयोवृक्षच्छायादिवत् कार्यकारणभावाऽसम्भवः ॥८॥
सामायिकप्रतिपत्रा तत्प्रणेतारः स्तुत्यास्ते चार्हन्त इति तत्सूत्रमाह
चउवीसत्थएणं भंते जीवे किं जणयइ ? चउवीसत्थएणं दसणविसोहिं जणयइ ॥९॥
व्याख्या हे भदन्त ! चतुर्विंशतिस्तवेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! चतुर्विंशतिस्तवेन जीवो दर्शविशुद्धिं जनयति, सम्यक्त्वनैर्मल्यं करोति ॥९॥
स्तुत्वा जिनान् गुरुवन्दनपूर्विका सामायिकप्रवृत्तिरित्याह
वंदणएणं भंते जीवे किं जणयइ ? वंदणएणं नीयागोत्तं कम्म खवेइ, उच्चागोत्तं निबंधइ, सोहग्गं च णं अप्पडिहयं आणाफलं निव्वत्तेइ, दाहिणभावं च णं जणयइ ॥१०॥
व्याख्या हे भदन्त ! वन्दनेन जीवः किं जनयति ? गुरुराह-वन्दनेन गुरुभ्यो द्वादशावतपूर्वकं वन्दनेन जीवो नीचैर्गोत्रं कर्म क्षपयति, उच्चैर्गोत्रं कर्म च बध्नाति, सौभाग्यं चाऽप्रतिहतं, आज्ञाफलमाज्ञासारं निवर्त्तयति करोति, दक्षिणभावं चानुकूलभावं जनयति लोकस्य ॥१०॥
सामायिकेऽत्र सामायिकप्रतिक्रमणे साधूनुद्दिश्योक्ते, न तु श्राद्धान् , यत आद्यान्ताहतोः, अन्येषां त्वतीचारे एवेति कथनात् एतद्गुणस्थितेनापि मध्यमार्हतां तीर्थेऽतीचारे, ऋषभवीरयोस्तु तदभावेऽपि प्रतिक्रमितव्यमिति प्रतिक्रमणमाह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org