________________
४२६
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या हे भदन्त ! आलोचनया गुर्वग्रे स्वदोषप्रकाशनरूपया जीवः किं जनयति ? गुरुराह-आलोचनया मायानिदानं मिथ्यादर्शनं सांशयिकादि, एतानि शल्यानीव शल्यानि मायानिदानमिथ्यादर्शनशल्यानि, तेषां मोक्षमार्ग प्रति विघ्नभूतानां अनन्तसंसारवर्द्धनानां उद्धरणमपनयनं करोति । ऋजुभावं सरलत्वं च जनयति । ततः प्रतिपन्नार्जवभावश्च जीवोऽमायी, पुंस्त्वहेतुत्वाच्चाऽमायित्वस्य, स्त्रीवेदं नपुंसकवेदं च न बध्नाति, पूर्वबद्धं च तदेव द्वयं सकलकर्म वा निर्जरयति क्षपयति, अर्थान्मुक्ति प्राप्नोति ॥५॥
आलोचना निन्दावत एव सफलेति तामाह
निंदणयाए णं भंते जीवे किं जणयई ? निंदणयाए णं पच्छाणुतावं जणयइ, पच्छाणुतावेणं विरज्जमाणो करणगुणसेढिं पडिवज्जइ, करणगुणसेढीपडिवन्ने य अणगारे मोहणिज्जं कम्मं उग्घाएइ ॥६॥
व्याख्या हे भदन्त ! निन्दनया जीव: किं जनयति ? गुरुराह-हे शिष्य ! निन्दनेनात्मनैवात्मदोषपरिभावनेन, पश्चादनुतापं हा दुष्टं कृतमिदं मयेत्यादि जनयति । विरज्यमानो वैराग्यं गच्छन् करणेनाऽपूर्वकरणेन गुणहेतुकां श्रेणिं करणगुणश्रेणि प्रपद्यते, सा च सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्यादायोदयसमयात् प्रभृति द्वितीयादिसमयेष्वसङ्ख्यातगुणपुद्गलप्रक्षेपरूपान्तर्मोहूत्तिकी, उपलक्षणत्वात् स्थितिघातरसघातगुणसङ्क्रमस्थितिवेदैश्च विशिष्टा, अथवा करणगुणेनाऽपूर्वकरणादिमाहात्म्येन श्रेणिः क्षपक श्रेणिरेव, तां, यद्वा करणं पिण्डविशुद्ध्यादि, गुणानां ज्ञानादीनां च श्रेणिरुत्तरोत्तरगुणालिस्तां प्रतिपद्यते, प्रतिपन्नकरणगुणश्रेणिकश्चाऽनगारो मोहनीयं दर्शनमोहनीयादिकर्मोद्घातयति क्षपयति, तत्क्षपणे च मुक्तिप्राप्तिः ॥६॥
कोऽप्यात्मनोऽत्यन्तदुष्टतां जानन्निन्दां कृत्वा गर्हामपि कुर्यादित्याह
गरहणयाए णं भंते जीवे किं जणयइ ? गरहणयाए णं अपुरक्कारं जणयइ, अपुरक्कारगएणं जीवे अप्पसत्थेहिंतो जोगेहितो नियत्तेइ, पसत्थे य पवत्तेइ, पसत्थजोगपडिवन्ने य णं अणगारे अणंतघाइपज्जवे खवेइ ॥७॥
व्याख्या हे स्वामिन् ! गर्हणेन परसमक्षमात्मनो दोषोद्भावनेन जीवः किं जनयति ? गुरुराह-गर्हणेन, पुरस्कारो गुणवानयमिति गौरवः, न तथाऽपुरस्कारः, अवज्ञास्पदं जनयत्यात्मनः, तद्गतश्च कदध्यवसायोत्पत्तावपि तद्भीत्यैवाऽप्रशस्तेभ्यः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org