________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
४२५ याति, अगारधर्मं च गार्हस्थ्यं, णं अलङ्कारे त्यजति, ततश्च प्राकृतत्वादनगार: सन् जीवः शारीरमानसानां दु:खानां, यथा छेदनभेदनादीनां शारीराणां, संयोगोऽनिष्टानां, आदेरिष्टवियोगादिः, ततः संयोगादीनां मानसदुःखानां व्यवच्छेदं करोति । अव्याबाधं च सुखं मोक्षं पुनर्निवर्तयति ।।३।।
धर्मश्रद्धायां चाऽवश्यं गुरवः शुश्रूषयितव्या इति गुरुशुश्रूषणामाह
गुरुसाहम्मियसुस्ससणयाए णं भंते जीवे किं जणयइ ? गुरुराहम्मियसुस्सूसणयाएणं विणयपडिवत्तिं जणयइ, विणयपडिवण्णे य णं जीवे अणच्चासायणसीले नेरइयतिरिक्खजोणियमणुस्सदेवदुग्गईओ निरंभइ, वण्णसंजलणभत्तिबहुमाणयाए य मणुस्सदेवसुगईओ निबंधइ, सिद्धिसुग्गइं च विसोहेइ पसत्थाई च णं विणयमूलाई सव्वकज्जाइं साहेइ, अण्णे य बहवे जीवे विणइत्ता भवइ ॥४॥
व्याख्या हे भदन्त ! गुरूणां आचार्याणां सार्मिकाणां एकधर्मवतां शुश्रूषया सेवया जीवः किं जनयति ? गुरुराह हे शिष्य ! गुरूणां साधर्मिकाणां च शुश्रूषयोपासनया जीवो विनयप्रतिपत्तिं उचितकृत्यकरणाङ्गीकाररूपां जनयतीति सर्वत्र ज्ञेयं । प्रतिपन्नविनयः पुनर्जीवोऽनत्यासातनाशीलो गुरुपरिवादादिपरिहारादत्यासातनात्यागी सन् नैरयिकतिर्यग्योनी मनुष्यदेवदुर्गती म्लेच्छकिल्बिषत्वादीनि रुणद्धि, तेद्धेतोरत्यासातनाया अभावेन तत्राऽगमनात् । वर्णश्लाघा तेन संज्वलं गुणोद्भासनं, भक्तिरञ्जलिप्रग्रहादिः, बहुमान आन्तरप्रीतिः, एषां द्वन्द्वे भावप्रत्यये च वर्णसज्वलनभक्तिबहुमानतया गुरूणां विनयप्रतिपत्त्या मनुष्यदेवसुगती सकलैश्वर्येन्द्रत्वादीनि बध्नाति, सिद्धि सुगतिं च विशोधयति, सन्मार्गसम्यग्दर्शनादेः शोधनेन च प्रशस्तानि प्रशंसास्पदानि विनयमूलानि सर्वकार्याणीह श्रुतज्ञानादीनि परत्र च मुक्तिं साधयति, अन्यांश्च बहून् जीवान् विनेता विनयं ग्राहयिता भवति स्वयं, उपादेयवचनत्वात् । 'उट्ठावइए परं' इत्युक्तत्वात् ॥४॥
गुरुशुश्रूषकस्याऽतीचारसम्भवे आलोचनया विवक्षितफलाप्तिरिति तामह
आलोयणयाए णं भंते जीवे किं जणयइ ? आलोयणयाए णं मायानियाणमिच्छादरिसणसल्लाणं मोक्खमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं जणयइ उज्जुभावपडिवन्ने य णं जीवे अमायी इत्थीवेदं णपुंसकवेदं च न बंधइ, पुव्वबद्धं च णं निज्जरेइ ॥५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org