________________
४२४
श्रीउत्तराध्ययनदीपिकाटीका-२ शीघ्रमागच्छति । अनन्तानुबन्धिक्रोधमानमायालोभान् क्षपयति । नवं कर्म अशुभं न बध्नाति । ततश्च कषायक्षयः प्रत्ययो निमित्तं यस्याः सा तथा, सैव तत्प्रत्ययका, ता, चः समुच्चये, मिथ्यात्वस्य विशुद्धिः सर्वथा क्षयस्तां कृत्वा दर्शनस्य क्षायिकसम्यक्त्वस्याराधको भवति, दर्शनविशुद्धया च विशुद्धयाऽत्यन्तनिर्मलयाऽस्त्येककः कश्चिन्मरुदेवीवद्भव्यस्तेनैव भवग्रहणेन सिद्ध्यति, तस्मिन्नेव भवे मुक्तिं याति । यस्तु तद्भवे न सिद्ध्यति स शुद्ध्या दर्शनस्य विशुद्धया तृतीयं पुनर्भवग्रहणं नातिक्रामति, अवश्यं भवत्रयान्तः सिद्ध्यति । उत्कृष्टदर्शनाराधकापेक्षयैतत् । यतः
उक्कोसदंसेणेणं भंते ! जीवे कइहिं भवग्गहणेहिं सेज्झिज्जा ? । गोयमा ! उक्कोसेणं तेणेव तओ मुक्के तइयं नाइक्कमइ ॥[]
संवेगादवश्यं निर्वेदः स्यादिति तमाह
निव्वेएणं भंते जीवे किं जणयइ ? निव्वेएण दिव्वमाणुसतेरिच्छिएसु कामभोगेसु निव्वेअं हव्वमागच्छइ, सव्वविसएसु विरज्जइ, सव्वविसएसु विरज्जमाणे आरंभपरिग्गहपरिच्चायं करेइ आरंभपरिग्गहपरिच्चायं करेमाणे संसारमग्गं वोच्छिदइ, सिद्धिमग्गपडिवण्णे य भवइ ॥२॥
व्याख्या हे भदन्त ! निर्वेदेन सामान्यतः संसारविरागेण जीवः किं जनयति ? गुरुराह-निर्वेदेन कदासौ संसारस्त्याज्य: ? इति धिया दिव्यमानुष्यतैरश्चेषु कामेषु निर्वेद, यथाऽलमेतैरनर्थहेतुभिरिति भावं 'हव्वं'ति द्रुतमागच्छति, सर्वविषयेषु विरज्यति, तेभ्यो विरज्यंश्च आरम्भपरिग्रहपरित्यागं करोति, तं कुर्वन् संसारमार्गं मिथ्यात्वाऽविरत्यादिकं व्यवच्छिनत्ति, तत्त्यागवत एव तत्त्वत आरम्भपरित्यागात् तद्व्यवच्छित्तौ च सुप्राप एव सिद्धिर्मागः सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति ॥
सत्यपि निर्वेदे धर्मश्रद्धैव श्रेयोहेतुरिति तमाह
धम्मसद्धाए णं भंते जीवे किं जणयइ ? धम्मसद्धाए णं सातासोक्खेसु रज्जमाणे विरज्जइ, अगारधम्मं च णं चयइ, अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेअणभेअणसंजोगादीणं वोच्छेदं करेइ, अव्वाबाहं च णं सुहं निव्वत्तेइ ॥३॥
व्याख्या हे भदन्त ! धर्मश्रद्धया जीवः किं जनयति ? गुरुराह-हे शिष्य ! धर्मश्रद्धया सातासुखेषु वैषयिकसुखेषु रज्यमानः पूर्वं रागं कुर्वन् विरज्यते विरक्ति
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org