SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ४२३ अयमनन्तरमेव वक्ष्यमाणोऽर्थ एवममुना वक्ष्यमाण प्रकारेणाख्याते श्रीवीरेण, तद्यथेति वक्ष्यमाणतदर्थोपन्यासे, संवेगः १ निर्वेदः २ धर्मश्रद्धा ३ गुरुसाधर्मिकशुश्रूषणं ४ (आर्षत्वाच्चेहोत्तरत्र च सर्वेष्वन्यथा पाठः) आलोचना ५ निन्दा ६ गर्दा ७ सामायिकं ८ चतुर्विंशतिस्तवः ९ वन्दनं १० प्रतिक्रमणं ११ कायोत्सर्गः १२ प्रत्याख्यानं १३ स्तवस्तुतिमङ्गलं १४ कालप्रत्युपेक्षणा १५ प्रायश्चित्तकरणं १६ क्षामणं १७ स्वाध्यायः १८ वाचना १९ परिपृच्छना २० परावर्त्तना २१ अनुप्रेक्षा २२ धर्मकथा २३ श्रुतस्याराधना २४ एकाग्रमनःसन्निवेशना २५ संयमः २६ तपः २७ व्यवदानं २८ सुखशायः २९ अप्रतिबन्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्त्तना ३२ सम्भोगप्रत्याख्यानं ३३ उपधिप्रत्याख्यानं ३४ आहारप्रत्याख्यानं ३५ कषायप्रत्याख्यानं ३६ योगप्रत्याख्यानं ३७ शरीरप्रत्याख्यानं ३८ सहायप्रत्याख्यानं ३९ भक्तप्रत्याख्यानं ४० सद्भावप्रत्याख्यानं ४१ प्रतिरूपता ४२ वैयावृत्त्यं ४३ सर्वगुणसम्पूर्णता ४४ वीतरागता ४५ क्षान्तिः ४६ मुक्तिः ४७ माईवं ४८ आर्जवं ४९ भावसत्यं ५० करणसत्यं ५१ योगसत्यं ५२ मनोगुप्तता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ समनःसमाधारणा ५६ वाक्समाधारणा ५७ कायसमाधारणा ५८ ज्ञानसम्पन्नता ५९ दर्शनसम्पन्नता ६० चारित्रसम्पन्नता ६१ श्रोत्रेन्द्रियनिग्रहः ६२ चक्षुरिन्द्रियनिग्रहः ६३ घ्राणेन्द्रियनिग्रहः ६४ जिह्वेन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रहः ६६ क्रोधविजयः ६७ मानविजयः ६८ मायाविजयः ६९ लोभविजयः ७० प्रेमद्वेषमिथ्यादर्शनविजयः ७१ शैलेशी ७२ अकर्मता ७३ प्रत्यक्षरसंस्कारः ॥ अथेदमेव प्रतिपदं फलोक्त्या व्याख्याति संवेगेणं भंते जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ, अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ, अणंताणुबंधिकोहमाणमायालोभे खवेइ, नवं कम्मं न बंधइ, तप्पच्चइयं च णं मिच्छत्तविसोहिं काऊण दंसणाराहए भवइ, दंसणविसोहीएणं विसुद्धाए अत्थेगइए तेणेव भवग्गहणेणं सिज्झइ, सोहीए णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमइ ॥१॥ व्याख्या-शिष्यः पृच्छति हे भदन्त ! संवेगेन मोक्षाभिलाषेण कृत्वा जीवः किं जनयति ? गुरुराह हे शिष्य ! संवेगेन कृत्वा जीवोऽनुत्तरां प्रकृष्टां धर्मयोः श्रुतचारित्रयोः श्रद्धां तत्करणेच्छां जनयति । अनुत्तरधर्मश्रद्धया संवेगं तमेवार्थाद्विशिष्टतरं 'हव्वं'ति ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy