________________
४२२
श्रीउत्तराध्ययनदीपिकाटीका-२ सामान्येन प्रतिपद्य, प्रतीत्य विशेषतो निश्चित्य, रोचयित्वा तदध्ययनादिविषयमभिलाषमात्मन उत्पाद्य, स्पृष्ट्वा योगत्रिकेण, तत्र मनसा सूत्रार्थचिन्तनैः, वचसा वचनाद्यैः, कायेन भङ्गकरचनाद्यैः, पालयित्वा परावर्त्तादिनाऽभिरक्ष्य, तीरयित्वाऽध्ययनादिना परिसमाप्य, कीर्तयित्वा गुरोविनयपूर्वकमिदमित्थं मयाऽधीतमिति निवेद्य, शोधयित्वा गुरुवदनभाषणाद्यैः शुद्धं कृत्वा, यद्वा तदुक्तक्रियया पालयित्वा, क्रियाया अतीचाररक्षया तीरयित्वा क्रियापारं नीत्वा, कीर्तयित्वा स्वाध्यायेन सभायां, शोधयित्वा उक्तक्रियया शुद्धगुणस्थानोत्तरोत्तराप्त्या, आराध्योत्सर्गापवादाभ्यां, एवमपि न स्वबुद्ध्या, किन्तु सम्यग् गुर्वाज्ञयाऽनुपाल्य सदाऽसेव्य, यद्वाराध्योत्सूत्रप्ररूपणादिपरिहारेण, आज्ञया जिनाज्ञयाऽनुपाल्य सततमासेव्य, बहवो जीवाः सिद्ध्यन्ति, सिद्धत्वादिना च बुद्ध्यन्ति, घातिकर्मक्षयेण मुच्यन्ते भवोपग्राहिकर्मचतुष्टयेन, ततश्च परिनिर्वान्ति कर्मदावानलोपशमेन, अत एव सर्वदुःखानां शारीरमानसानामन्तं कुर्वन्ति मुक्तत्वाप्त्या । ___तस्स णं अयमढे एवमाहिज्जति, तं जहा-संवेगे निव्वेगो धम्मसद्धाए गुरुसाहम्मियसुस्सूसणया आलोयणया निंदणया गरहणया सामाइए चउवीसत्थए वंदणए पडिक्कमणे काउस्सग्गे पच्चक्खाणे थयथुइमंगले कालपडिलेहणया पायच्छित्तकरणे खमावणया सज्झाए वायणया पडिपुच्छणया परियट्टणया अणुपेहा धम्मकहा सुयस्स आराहणया एगग्गमणसंणिवेसणया संजमे तवे वोदाणे सुहसाए अप्पडिबद्धया विवित्तसयणासणसेवणया विणियट्टणया संभोगपच्चक्खाणे उवहिपच्चक्खाणे आहारपच्चक्खाणे कसायपच्चक्खाणे जोगपच्चक्खाणे शरीरपच्चक्खाणे सहायपच्चक्खाणे भत्तपच्चक्खाणे सब्भावपच्चक्खाणे पडिरूवया वेयावच्चे सव्वगुणसंपुण्णया वीयरागया, खंती मुत्ती मद्दवे अज्जवे भावसच्चे करणसच्चे जोगसच्चे मणगुत्तया वयगुत्तया कायगुत्तया मणसमाहारणया वयसमाहारणया कायसमाहारणया नाणसंपण्णया दंसणसंपण्णया चरित्तसंपण्णया सोतिंदियनिग्गहे चक्खिदीयनिग्गहे घाणिंदियनिग्गहे जिब्भिदियनिग्गहे फासिंदियनिग्गहे कोहविजए माणविजए मायाविजए लोहविजए पेज्जदोसमिच्छादसणविजए सेलेसी अकम्मया ॥
व्याख्या-तस्य सम्यक्त्वपराक्रमाध्ययनस्य णमिति सर्वत्र वाक्यलङ्कारे ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org