________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ॥
यानि ज्ञानादीनि मक्तिमार्गत्वेनोक्तानि तानि संवेगादिमुलानि अकर्मताफलानि च स्युस्तानीहोच्यन्ते । सा च वीतरागत्वपूर्विकेति यथा तत् स्यात्तथात्रोच्यते । इत्यनेन सम्बन्धत्रयेणायातमिदमेकोनत्रिंशं सम्यक्त्वोपेतानां पराक्रमवाचि सम्यक्त्वपराक्रमाख्याध्ययनमाह
आयाणपदनामं, सम्मत्तपरक्कम ति अज्झयणं ।
गोणं तु अप्पमायं, एगे पुण वीयरायसुयं ॥१॥[उत्त. नि./गा.५०३] आदानपदे इति वक्तव्ये, रूढं नाम सम्यक्त्वं पराक्रमं गौणं तु
सुयं मे आउसं तेणं भगवया एवमक्खायं इह खलु सम्मत्ततपरक्कमे णाम अज्झयणे ॥
व्याख्या-श्रतमाकर्णितं 'मे' मया आयुष्यमन्निति शिष्यामन्त्रणे, एतच्च सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-तेन भगवता श्रीवीरेण एवमाख्यातमस्ति यदिह खलु इहैव प्रवचने सम्यक्त्वे सति पराक्रम उत्तरोत्तरगुणैः कर्मारिजयो वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रमं नामाऽध्ययनमस्ति ।
तच्च केन प्रणीतमित्याह
समणेणं भगवया महावीरेणं कासवेणं पवेइअं, जं सम्मं सद्दहित्ता पत्तिइत्ता रोयइत्ता फासइत्ता पालइत्ता तीरइत्ता किट्टइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिझंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खणमंतं करेंति ॥
व्याख्या-श्रमणेत्यादि, श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदितं ममेदमाख्यातमिति भावः । गणभृदपि, गुरूपदिष्टं गुरुमाहात्म्यं च ख्यापयद्भिः सूत्रमर्थश्च व्याख्येये इति ज्ञप्त्यै एवमुपन्यसति । यदध्ययनं सम्यक् श्रद्धाय शब्दार्थो भयरूपं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org