________________
४२०
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-तपश्च द्विविधमुक्तं , बाह्यमभ्यन्तरं च, बाह्यं षड्विधमुक्तं, एवमाभ्यन्तरं चापि षोढा, तद्व्याख्यानमग्रे तपोऽध्ययने व्याख्यास्यते ॥३४।। एषां मुक्तिमार्गत्वे कस्य कतरो व्यापार इत्याह
नाणेण जाणइ भावे, दंसणेण य सद्दहे ।
चरित्तेण य णिण्हाइ, तवेणं परिसुज्झइ ॥३५॥ व्याख्या-ज्ञानेन मत्यादिना जानाति भावान् जीवादीन् , दर्शनेन च तान् जिनोक्तान् श्रद्दधते, चारित्रेण च 'निण्हाइ'त्ति निराश्रवो भवति (पाठान्तरे-‘ण गिण्हाइ' न गृह्णाति, नाऽदत्ते कर्म) तपसा च परिशुद्धयति कर्मक्षयाच्छुद्धो भवति ॥३५।। मार्गस्य फलं मोक्ष उक्तः, तत्फलभूतां गतिमाह
खवित्ता पुव्वकम्माइं, संजमेण तवेण य ।
सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ॥३६॥ त्ति बेमि व्याख्या-क्षपयित्वा पूर्वकर्माणि पूर्वकृतज्ञानावरणादीनि, संयमेन तपसा, चात् ज्ञानदर्शनाभ्यां च, प्राकृतत्वात् प्रक्षीणानि सर्वदुःखानि यत्र तत्तथा सिद्धिक्षेत्रं, तदर्थयन्ते तद्गामितया ये ते प्रक्षीणसर्वदुःखार्थाः प्रक्रामन्ति सिद्धि महर्षयो महैषिणो वा । इति समाप्तौ, ब्रवीमीति प्राग्वत् ॥३६॥
इत्यष्टाविंशं मोक्षमार्गीयमध्ययनमुक्तम् ॥२८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org