________________
अष्टाविंशं मोक्षमार्गीयमध्ययनम्
४१९ व्याख्या-शङ्कितं देशसर्वशङ्का, तदभावो निःशङ्कितं, काङ्क्षितमन्याऽन्यदर्शनग्रहात् , तदभावो निःकाङ्कितं, विचिकित्सा फलं प्रति सन्देहः, यद्वा विदां साधूनां जुगुप्सा, तदभावो निर्विचिकित्सं निर्विजुगुप्सं वा, आर्षत्वादेवं पाठः, अमूढा दृष्टिः अमूढदृष्टिः, यत्परतीर्थिनां भूयसी ऋद्धिं दृष्ट्वापि स्वकीयेऽकिञ्चने धर्मे मतेः स्थिरीभावः, चतुर्विधोऽप्ययमान्तराचारः, बाह्यं त्वाह-उपबृंहा प्रशंसा, तया तत्तद्गुणपरिवर्द्धनं, गुणवतां स्थिरीकरणं, स्वीकृतधर्मानुष्ठानं प्रति सीदतां वात्सल्यं, साधर्मिकाणां भक्तादिनोचितप्रतिपत्तिकरणं, प्रभावना स्वतीर्थोन्नतिहेतुचेष्टायाः प्रवर्तनं, अष्टैते दर्शनाचाराः स्युः ॥३१॥ इत्थं ज्ञानदर्शनाख्यमुक्तिमार्गमुक्त्वा चारित्ररूपं सभेदमाह
सामाइयत्थ पढमं, छेओवट्ठावणं भवे बिइयं ।
परिहारविसुहीयं, सुहुमं तह संपरायं च ॥३२॥ व्याख्या-रागद्वेषरहिते समपरिणामे अयो गमनं समायः, स एव सामायिकं, सावद्यत्यागरूपं प्रथम, तच्च द्विधा, इत्वरं यावत्कथितं च तत्रेत्वरं छेदोपस्थापनीयानां यावत्कथितं च मध्यमार्हत्तीर्थेषु महाविदेहेषु च, तथा छेदः सातिचारस्य यतेः, निरतिचारस्य वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदरूपः, तद्युक्ता उपस्थापना महाव्रतारोपणा यस्मिन् तच्छेदोपस्थापनं भवेद् द्वितीयं । परिहरणं परिहारो विशिष्टतपोरूपस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं, अष्टादशमासैनवकगणसाध्यं श्रीआवश्यकदीपिकाव्याख्यातं। तथेत्यानन्तर्ये छन्दोभङ्गभयाच्चैवमुपन्यस्तः, सूक्ष्मः किट्टीकरणतः सम्पर्येति पर्यटत्यनेन संसारमिति सम्परायो लोभाख्यः कषायो यस्मिस्तत् सूक्ष्मसम्परायं, एतच्चोपशमश्रेणिक्षपकश्रेण्योर्लोभाणुवेदनसमये स्यात् ॥३२॥
अकसायमहक्खायं, छउमत्थस्स जिणस्स वा ।
एयं चयरित्तकरं, चारित्तं होइ आहियं ॥३३॥ व्याख्या-अकषायं क्षपितोपशमितकषायावस्थाभावि, यथाख्यातमहत्कथितस्वरूपाऽनतिक्रमवत् , छद्मस्थस्योपशान्तक्षीणमोहगुणस्थानद्वयवर्तिनो जिनस्य वा केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थानिनः, एतत्सामायिकादि पञ्चविधमपि च यस्य राशेः कर्मणां रिक्तं विरेकोऽभाव इत्यर्थस्तत्करोतीति चयरिक्तकरं चारित्रं भवत्याख्यातं जिनैः ॥३३॥
अथ तुर्यं कारणं तप आह
तवो य दुविहो वुत्तो, बाहिरभितरो तहा । बाहिरो छव्विहो वुत्तो, एवमभितरो तवो ॥३४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org