________________
४१८
सम्यक्त्वलिङ्गान्याह—
परमत्थसंथवो वा, सुदट्ठपरमत्थसेवणा वा वि ।
वावण्णकुदंसणवज्जणा य सम्मत्तसद्दहणा ॥ २८ ॥
व्याख्या–परमार्थास्तात्विकार्था जीवाद्यास्तेषु संस्तवो गुणोत्कीर्त्तनं, पुनः पुनस्तत्स्वरूपचिन्तनकृते कृतः परिचयो वा परमार्थसंस्तवः, वा समुच्चये । सुदृष्टपरमार्था आचार्याद्यास्तेषां सेवनं, इहाग्रे च सूत्रत्वात् स्त्रीलिङ्गता, चेत्यनुक्तसमुच्चये, ततो यथाशक्ति तद्वैयावृत्त्यप्रवृत्तिश्च, अपि समुच्चये, दर्शनशब्दो द्वयोर्योज्यः, ततो व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शना निह्नवाद्याः, यैराप्तं सम्यक्त्वं कर्मोदयाद्वान्तं, तता कुदर्शना: शाक्याद्यास्तेषां वर्जनं । चः समुच्चये, सम्यक्त्वं श्रद्धीयतेऽस्तीति प्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानं सम्यक्त्वलिङ्गमित्यर्थः, श्रद्धानस्य प्रत्येकं परमार्थसंस्तवादिभिः सम्बन्धादेकवचनम् ॥२८॥
सम्यक्त्वस्य माहात्म्यमाह
नत्थि चरितं सम्मत्तविहूणं, दंसणे उ भइयव्वं । सम्मत्तचरित्ताइं, जुगवं पुव्वं व सम्मत्तं ॥२९॥
श्रीउत्तराध्ययनदीपिकाटीका - २
व्याख्या - नास्ति नासीन्न च भविष्यति चारित्रं सम्यक्त्वविहीनं, कोऽर्थः ? यावन्न सम्यक्त्वोत्पादो न तावच्चारित्रं, दर्शने तु सम्यक्त्वे पुनः सति भक्तव्यं, स्यान्न वा चारित्रं, अतो न तत्र नियतं । यतः सम्यक्त्वचारित्रे तु युगपदेककालमुत्पद्येते । 'पुव्व व'त्ति पूर्वं वा चारित्रोत्पादात् सम्यक्त्वमुत्पद्येत ॥ २९ ॥
अन्यच्च
नादंसणिस्स नाणं, नाणेण विणा न होंति चरणगुणा ।
अगुणिस्स नत्थि मोक्खो, नत्थि अमोक्खस्स निव्वाणं ॥३०॥
व्याख्या - नाऽदर्शनिनो दर्शनरहितस्य ज्ञानं सम्यग्ज्ञानं ज्ञानेन विनेति ज्ञान - विरहिता न भवन्ति चरणगुणाः, अत्र चरणं व्रतादि, गुणाः पिण्डविशुद्धयाद्याः, अगुणिनोऽचरणगुणस्य मोक्षः कर्मक्षयो नास्ति, अमुक्तस्य च कर्मणा निर्वाणं मुक्तिर्नास्ति ||३०||
अष्टधा दर्शनाचारे उत्तरोत्तरगुणाप्तिरिति तान् दर्शयति
निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठी य । उववूहथिरीकरणे, वच्छल भावणे अट्ठ ॥३१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org