________________
अष्टाविंशं मोक्षमार्गीयमध्ययनम्
४१७ व्याख्या-द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वाद्यशेषपर्यायाः सर्वप्रमाणैरशेषैः प्रत्यक्षाद्यैर्यस्योपलब्धा यत्र यस्य प्रत्यक्षादेर्व्यापारस्तेनैव प्रमाणेन ते ज्ञाताः, सर्वैर्नयविधिभिर्नेगमादिभेदैः, चः समुच्चये, स विस्ताररुचितिव्यः ॥२४|| क्रियारुचिमाह
दसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु ।
जो किरियाभावरुइ, सो खलु किरियारुई नाम ॥२५॥ व्याख्या-दर्शनज्ञानचारित्रे, द्वन्द्वे, तथा तपोविनये, सत्याश्च ताः समितिगुप्तयः, तासु यः क्रियाभावरुचिः, कोऽर्थः ? दर्शनाद्याचारानुष्ठाने भावतो रुचिमान् , स खलु निश्चयेन क्रियारुचिनामा कथ्यते ।।२५।। सङ्क्षपरुचिमाह
अणभिग्गहियकुदिट्ठी, संखेवरुइ त्ति होइ नायव्यो ।
अविसारओ पवयणे, अणभिग्गहिओ य सेसेसु ॥२६॥ व्याख्या-अनभिगृहीता अनङ्गीकृता कुदृष्टिबौद्धमतादिर्येन स तथा, सक्षेपरुचिरिति ज्ञातव्यो भवति, अविशारदोऽकुशलः प्रवचने जिनमते, अविद्यमानमाभिमुख्येन गृहीतं ग्रहणं ज्ञानमस्येत्यनभिगृहीतोऽनभिज्ञः शेषेषु कपिलादिमतेषु, कोऽर्थः ? य उक्तविशेषणः स सक्षेपेणैव चिलातीपुत्रवत् प्रशमादिपदत्रयेण तत्त्वरुचिमाप्नोति, स च सक्षेपरुचिः कथ्यते ।।२६।। धर्मरुचिमाह
जो अत्थिकायधम्मं, सुतधम्म खलु चरित्तधम्मं च ।
सद्दहइ जिणाभिहियं, सो धम्मरुइ त्ति नायव्वो ॥२७॥ व्याख्या-योऽस्तिकायादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं, जातावेकवचनं श्रुतधर्ममङ्गप्रविष्टाद्यागमस्वरूपं, खलुक्यालङ्कारे, चारित्रधर्मं वा सामायिकादि, च एवार्थे, श्रद्दधाति जिनाभिहितं तीर्थकरैः कथितं, स धर्मरुचिः, धर्मेषु पर्यायेषु, धर्मे वा श्रुतधर्मादौ रुचिरस्येति स धर्मरुचितिव्यः, एवं शिष्यव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदोक्तिः, अन्यथा निसर्गोपदेशयोरधिगमादौ वा क्वचित् केषाञ्चिदन्तर्भाव इति ॥२७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org