________________
४१६
श्रीउत्तराध्ययनदीपिकाटीका-२ जीवाऽजीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् , नामेत्यभ्युपगमे, खलु निश्चितं स आज्ञारुचिः ॥२०॥ सूत्ररुचिमाह
जो सुत्तमहिज्जंतो, सुएण ओगाहइ उ सम्मत्तं ।
अंगेण बाहिरेण व, सो सुत्तरुइ त्ति नायव्वो ॥२१॥ व्याख्या-यः सूत्रमागममधीयानः पठन् सूत्रेणाधीयमानेनावगाहते प्राप्नोति सम्यक्त्वं, तुः पूत्तौं, अङ्गेनाचारादिना, बाह्येनानङ्गप्रविष्टेनोत्तराध्ययनादिना वा स गोविन्दवाचकवत् सूत्ररुचिः ॥२१॥ बीजरुचिमाह
एगेण अणेगाइं, पयाइं जो पसरइ उ सम्मत्तं ।
उदए व तेल्लबिंदू, सो बीयरुइ त्ति नायव्वो ॥२२॥ व्याख्या-एकेन पदेन जीवादिना सुब्ब्यत्ययः, अनेकेषु पदेषु जीवादिषु यः प्रसरत्येव, सम्यक्त्वशब्देन रुचिरत्रोक्ता, तदभिन्न आत्मापि सम्यक्त्वमुच्यते, [क्वेव कः प्रसरति ? उदक इव तैलबिन्दुः, यथोदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति] तथात्रैकदेशोत्पन्नरुचिरप्यात्मा क्षयोपशमवशादशेषतत्वेषु रुचिमान् स्यात् , स बीजरुचिः, यथा बीजं क्रमेणाऽनेकबीजानां जनकमेवमस्यापि रुचिविषयभेदतो भिन्नानां रुच्यन्तराणां जनयित्री ॥२२॥
अभिगमरुचिमाह
सो होइ अभिगमरुई, सुअनाणं जेण अत्थओ दिटुं ।
एक्कारस अंगाई, पइण्णगं दिट्ठिवाओ य ॥२३॥ व्याख्या-स भवत्यभिगमरुचिः, येन श्रुतज्ञानं अर्थतोऽर्थमाश्रित्य दृष्टमुपलब्ध, एकादशाङ्गान्याचाराङ्गादीनि, तथा प्रकीर्णकं, जातित्वादेकवचनं, प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादः, च शब्दादुपाङ्गानि, उपपातिकादीनि सर्वाणि येनार्थतो ज्ञातानि भवन्ति सोऽभिगमरुचिर्भवतीत्यर्थः ॥२३।। विस्ताररुचिमाह
दव्वाण सव्वभावा, सव्वपमाणेहिं जस्स उवलद्धा । सव्वाहिं नयविहीहि य, वित्थाररुइ त्ति नायव्वो ॥२४॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org