SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ४१५ अष्टाविंशं मोक्षमार्गीयमध्ययनम् रुचिः ७ क्रिया धर्मानुष्ठानं, सङ्क्षेपः सङ्ग्रहः, धर्मः श्रुतधर्मादि:, तेषु रुचिर्यस्यासौ क्रियारुचिः ८ सङ्क्षेपरुचिः ९ धर्मरुचिश्च १० । इह सम्यक्त्वस्य जीवाऽनन्यत्वेन यदाख्यानं तद्गुण- गुणिनोः कथञ्चिदभेदज्ञप्त्यै ॥१६॥ व्यासार्थमाह भूयत्थेणाहिगया, जीवाजीवा य पुण्णपावं च । सहसंमुइयाऽऽसवसंवरो य रोएड उ निसग्गो ॥१७॥ , व्याख्या- भूतत्वेन सत्यत्वेन, सद्भूता अमी अर्था इत्येवंरूपेण, अधिगता येन जीवाऽजीवाः पुण्यपापं च, कथममी अधिगताः ? इत्याह- सूत्रत्वात् सहात्मनि या सङ्गता मतिः सा सहसम्मतिस्तया, कोऽर्थः ? परोपदेशनिरपेक्षया जातिस्मरणप्रतिभादिरूपया, तथैवाश्रवसंवरौ, चः अनुक्तबन्धादिसमुच्चये । तुः एवार्थे, रोचत एव यस्य, अर्थात् सत्यतया तत्वादधिगतान् जीवाऽजीवादीन् योऽभिरोचते स निसर्गरुचिर्ज्ञेयः ||१७|| अमुमेवार्थं स्पष्टयति जो जिणदिट्ठे भावे, चउव्विहे सद्दहाइ सयमेव । एमेय नन्नहत्तिय, स निसग्गरुड़ त्ति नायव्वो ॥ १८ ॥ व्याख्या- यो जिनदृष्टांस्तीर्थकरोपलब्धान् भावान् जीवादीन् चतुर्विधान् द्रव्यक्षेत्रकालभावतो नामादितो वा श्रद्दधति स्वयमेव परोपदेशं विना, एवमेतद्यथा जिनैर्दृष्टं जीवादि, नान्यथेति, नैतद्वीपरीतं, चः समुच्चये, स निसर्गरुचिरिति ज्ञातव्यः ||१८|| उपदेशरुचिमाह एए चेव उ भावे, उवट्ठे जो परेण सद्दहइ । छउमत्थेण जिणेण व, उवएसरुइ त्ति नायव्वो ॥१९॥ व्याख्या - एतांश्चैव तु भावानुपदिष्टान् कथितान् परेणाऽन्येन श्रद्दधाति, स्थेनाऽनुत्पन्नकेवलेन, जिनेन चोत्पन्नकेवलेन, स उपदेशरुचिः ॥१९॥ आज्ञारुचिमाह रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । आणाए रोयंतो, सो खलु आणारुई नाम ॥ २०॥ छ्द्ध व्याख्या–रागः प्रीतिः, द्वेषोऽप्रीतिः, मोहः शेषमोहनीयप्रकृतयः, अज्ञानं मिथ्याज्ञानरूपं, यस्यापगतं भवति देशतः, ततश्चाज्ञयैवाचार्यादिसम्बन्धिन्या रोचमानो Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy