________________
४१४
श्रीउत्तराध्ययनदीपिकाटीका - २ पुण्यं शुभप्रकृतयः सातवेदाद्याः ४ पापमशुभप्रकृतिरूपं मिथ्यात्वादिः ५ आश्रवः कर्मोपादानहेतुर्हिंसादिः ६ तथा संवरो गुप्त्यादिभिराश्रवनिरोधो, ७ निर्जरा विपाकात्तपसो वा कर्मपरिशाट ८ मोक्षः कृत्स्नकर्मक्षयात् स्वात्मन्यवस्थानं ९ । सन्त्येते तथ्या अवितथा नव भावा नवसङ्ख्या मध्यमस्थानापेक्षया, जघन्यतस्तु जीवाऽजीवयोरेव बन्धादीनामन्तर्भावसम्भवाद् द्विसङ्ख्यैव । वक्ष्यति च
जीवा चेव अजीवा य, एस लोगे वियाहिया । [ उत्त/गा. १३५७]
विस्तरतस्तु तदुत्तरोत्तरभेदविवक्षयाऽानन्त्यमेव स्यात् ||१४||
ततः
तहियाणं तु भावाणं, सब्भावे उवएसणं ।
भावेण सद्दहंतस्स, सम्मत्तं तं वियाहियं ॥ १५ ॥
व्याख्या- तथ्यानां तु भावानां जीवादीनां सद्भावे सद्भावविषयमवितथसत्ताभिधायकमुपदेशनं गुर्वाद्युपदेशं भावेनान्तः करणेन श्रद्दधतस्तथेति प्रतिपद्यमानस्य पुरुषस्य सम्यक्त्वं शुद्धदर्शनं व्याख्यातं जिनैरिति शेषः । सम्यक्त्वं हि सम्यक्त्वमोहनीयकर्मानुक्षयक्षयोपशमोत्थात्मपरिणामः, यतः - " से य सम्मत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेयणोवसमवेयसमुत्थे पसमसंवेगाइलिङ्गे सुभे आयपरिणामे पन्नत्ते" । [ ] नूनं स कोऽप्यात्मनः परिणामोऽस्ति, येन सत्यपि जीवादिस्वरूपज्ञत्वे कस्यचिदेव सम्यक्त्वप्रतिपत्तिः स्यात्, न सर्वस्य यथा दृक्सत्त्वेऽपि कोऽपि शङ्खे श्वेतं, रुजाक्रान्तश्च नीलादिमन्यथा वा पश्यति । एवं जीवादिपरिज्ञानस्य सम्यग्भावहेतुरात्मपरिणामविशेषः सम्यक्त्वं भवतीत्याख्यातं जिनैः ||१५||
एवं सम्यक्त्वस्वरूपमुक्त्वा तद्भेदानाह—
निसग्गुवएसरुई, आणारुइसुत्तबीयरुइमेव ।
अभिगमवित्थाररुई, किरियासंखेवधम्मरुई ॥ १६ ॥
व्याख्या - रुचिशब्दः प्रत्येकं योज्यः, निसर्गः स्वभावस्तेन रुचिस्त्वत्वाभिलाषरूपाऽस्येति निसर्गरुचिः १ उपदेशेन गुर्वादिकथनेन रुचिर्यस्यासावुपदेशरुचिः २ आज्ञया सर्वज्ञवाचा रुचिर्यस्यासौ आज्ञारुचिः ३ सूत्रेणागमेन रुचिर्यस्यासौ सूत्ररुचिः ४ बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधकं वचस्तेन रुचिर्यस्यासौ द्वन्द्वे बीजरुचि: ५ एवः समुच्चये । अभिगमो ज्ञानं, विस्तारश्च ताभ्यां रुचिर्यस्यायं अभिगमरुचिः ६ विस्तार
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org