________________
अष्टाविंशं मोक्षमार्गीयमध्ययनम्
४१३ ऽभावस्याऽभावेनाऽरूपत्वाऽसिद्धिः, यतो घटस्य कपालाख्यपर्यायन्तरोत्पत्त्या घटाऽभावेऽप्यरूपत्वाऽनुपपत्तेः, एवमालोकाऽपरपर्यायान्धकारेऽपि नाणुत्वहानिः, एवं परिणामित्वाद्वस्तुनः, परिणामे सत्येव वस्तुनः पूर्वरूपत्यागेन रूपान्तरोत्पत्तिः, यतः
परिणामो ह्यर्थान्तर-गमनं न च सर्वथा व्यवस्थानं ।।
न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः ॥१॥ [ ] एवं छायातपयोरपि पौद्गलिकत्वं स्पष्टं, शीतोष्णत्वात् । एवं शब्दोऽम्बरगुण इत्यादि निराकृतम् ।
अणवः सर्वशक्तित्वा-द्भेदसंसर्गवृत्तयः ।
छायातपतमःशब्द-भावेन परिणामिनः ॥१॥ [ ] वर्णादीनां च पौद्गलिकत्वं स्पष्टमेव ॥१२॥ एवं द्रव्यलक्षणमुक्तं, पर्यायलक्षणमाह
एगत्तं च पुहत्तं च, संखासंठ्ठाणमेव य ।
संजोगा य विभागा य, पज्जवाण तु लक्खणं ॥१३॥ व्याख्या-एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोऽयं घटादिरिति प्रतीतिहेतुः, चः समुच्चये, पृथग्भावः पृथक्त्वं, अयमस्मात् पृथगिति प्रतीतिहेतुः, सङ्ख्या एकद्वित्र्याद्याः, संस्थानमाकार एव, चेति पूर्ती । संयोगोऽयमङ्गुल्यादिसंयोग इत्यादिः, व्यपदेशहेतवो विभागाश्च, अयमितो विभक्त इति बुद्धिहेतवः, अत्र व्यक्तिपक्षे बहुवचनं नवपुराणत्वाधुपलक्षकं । एवंविधं पर्यायाणां, तुः पूर्ती, लक्षणं ज्ञेयं । अयं भावः-यः कोऽप्यस्खलत्प्रत्ययः स सनिबन्धनः, यथा घटादिप्रत्ययः, अस्खलत्प्रत्ययाश्चामी, एकोऽयमित्यादिप्रत्ययाः, ततोऽवश्यमेषां कारणेन भाव्यं । तच्च न द्रव्यमेव, तस्य सदा स्थितत्वेन प्रतिनियतकालैकत्वादिप्रत्ययाऽनुत्पत्तिप्रसङ्गात् । ततश्च यदेषां कालनियमेनोत्पत्तिरेतुर्न तत्पर्यवेभ्यस्तत्परिणतिविशेषरूपेभ्योऽन्यद्गुणा रूपरसगन्धस्पर्शाद्याः सहवर्तिनो रूपिणां अरूपिणां गतिस्थित्यवगाहज्ञानवर्त्तनाद्याः ॥१३।। दर्शनमाह
जीवाजीवा य बंधो य, पुण्णं पावासवो तहा ।
संवरो णिज्जरा मोक्खो, संते एए तहिया णव ॥१४॥ व्याख्या-जीवाः १ अजीवाश्च धर्मास्तिकायाद्याः २ बन्धो जीवकर्मणोः श्लेषः ३
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org