________________
४१२
श्रीउत्तराध्ययनदीपिकाटीका-२ वत्तणालक्खणो कालो, जीवो उवओगलक्खणो ।
नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥१०॥
व्याख्या-वर्त्ततेऽनवच्छिन्नत्वेन निरन्तरं भवतीति वर्तना, सा वर्तना एव लक्षणं लिङ्गं यस्येति वर्तनालक्षणः कालः कथ्यते, तथा उपयोगो मतिज्ञानादिरूपः, स एव लक्षणं यस्य स उपयोगलक्षणो जीव उच्यते, यतो जीवो हि ज्ञानादिभिरेव लक्ष्यते उक्तलक्षणत्वात् । पुनस्तस्य विशेषलक्षणमाह-ज्ञानेन विशेषावबोधरूपेण, च दर्शनेन सामान्यावबोधरूपेण, तथैव सुखेन दुःखेन च यो ज्ञायते स जीव इत्युत्यते ॥१०॥ पुनर्लक्षणान्तरमाह
नाणं च दंसणं चेव, चरितं च तवो तहा । ..
वीरियं उवओगो य, एयं जीवस्स लक्खणं ॥११॥ व्याख्या-ज्ञानं च दर्शनं चैव चारित्रं च तपः, तथा वीर्यं वीर्यान्तरायक्षयोपशमोत्थसामर्थ्य, उपयोगश्चाऽवहितत्वं, एतद् ज्ञानादि जीवस्य लक्षणं, एतेन हि जीवोऽनन्यसाधारणतया लक्ष्यते इति ॥११॥ इत्थं जीवलक्षणमुक्त्वा पुद्गलानां लक्षणमाह
सबंधयार उज्जोओ, पहा छायातवे वि य ।
वन्नरसगंधफासा, पुग्गलाणं तु लक्खणं ॥१२॥ व्याख्या-शब्दो ध्वनिः, अन्धकारः, उभयत्र सुपो लुप् , उद्योतो रत्नादिप्रकाशः, प्रभा चन्द्रादिरुचिः, छाया शैत्यगुणा, आतपो रविबिम्बजोष्णप्रकाशः, अपिशब्दाच्च तत्सम्बन्धिवेदादीनां परिग्रहः, वर्णो नीलादिः, रसस्तिक्तादिः, गन्धः सुरभ्यादिः स्पर्शः शैत्यादिः, एषां द्वन्द्वः, पुद्गलादीनां स्कन्धादीनां तु पुनर्लक्षणमेभिरेव । तेषां लक्ष्यत्वात् । ननु शब्दादीनां पुद्गललक्षणत्वं कथं ? उच्यते-शब्दो मूर्त्तत्वात् पौद्गलिकः, मूर्त्तता च तस्य प्रतिघातकृत्त्वादिभ्यः, उक्तं च
प्रतिघातविधायित्वा-ल्लोष्टवन्मूर्त्तता ध्वनेः ।
द्वारवतोऽनुपाताच्च, धूमवच्च परिस्फुटम् ॥१॥[ ] अन्धकारातपोद्योतप्रभास्तु पौद्गलिकाश्चक्षुर्विज्ञानविषयत्वात् , प्रयोगश्चात्र-यत्पौद्गलिकं न, तच्चक्षुर्विषयमपि न, यथात्माद्याः, चक्षुर्विषयाश्चान्धकाराद्याः, ततस्ते पुद्गलमयाः ।
अथालोकाभाव एवान्धकारं, ततोऽस्याऽरूपत्वं, उच्यते-रूपिणः सर्वथा निरन्वया
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org