________________
अष्टाविंशं मोक्षमार्गीयमध्ययनम्
४११ तल्लक्षणमित्याह-पर्याया हि उभयाश्रिता भवेयुः, उभयोरिति द्रव्यगुणयोराश्रिताः, अत एव चोभयाश्रिताः, यतो द्रव्येषु नवनवपर्याया नाम्ना आकृत्या च भवन्ति, गुणेष्वपि च नवपुराणादिपर्यायाः प्रत्यक्षं दृश्यन्ते एव ॥६।। पूर्वं द्रव्यभेदानाह
धम्मो १ अधम्मो २ आगासं ३, कालो ४ पुग्गल ५ जंतवो ६। ___ एस लोगु त्ति पन्नत्तो जिणेहिं वरदंसिहि ॥७॥
व्याख्या-धर्म इति धर्मास्तिकाय: १ अधर्म इति अधर्मास्तिकाय: २ आकाशमित्याकाशास्तिकायः ३ कालः समयादिरूपः ४ 'पुग्गल'त्ति पुद्गलास्तिकायः ५ जन्तव इति जीवाः ६ एतानि षड् द्रव्याणि ज्ञेयानीति । एष इत्येवंरूपः षड्द्रव्यात्मको लोको वरदर्शिभिर्यथास्थितवस्तुस्वरूपज्ञैर्जिनैरर्हद्भिः प्रज्ञप्तः कथित इति ||७||
धम्मो अधम्मो आगासं, दव्वं इक्किक्कमाहियं ।
अणंताणि य दव्वाणि, कालो पुग्गलजंतवो ॥८॥ व्याख्या-धर्मद्रव्यमधर्मद्रव्यमाकाशद्रव्यं च, एतत्त्रयमेकैकमित्येकत्वयुक्तमेवाख्यातं जिनैरिति शेषः, अग्रेतनानि कालपुद्गलजन्तुद्रव्याणि त्रिण्यप्यनन्तानि निजनिजानन्तभेदरूपाणि व्याख्यातानि । तत्र कालोऽतीताद्यपेक्षयाऽनन्तः, पुद्गला जन्तवश्चाऽनन्ताः प्रतीता एव ॥८॥
अथ षड्द्रव्याणां लक्षणमाह
गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो ।
भायणं सव्वदव्वाणं, नहं ओगाहलक्खणं ॥९॥ व्याख्या-धर्मो धर्मास्तिकायो गतिलक्षणो ज्ञेयः, लक्ष्यते ज्ञायतेऽनेनेति लक्षणं । एकस्माद्देशाज्जीवपुद्गलयोर्देशान्तरं प्रति गमनं गतिः, गतिरेव लक्षणं यस्य स गतिलक्षणः, अधर्मोऽधर्मास्तिकायः स्थितिलक्षणो ज्ञेयः, स्थितिः स्थानं गतिरोधः, सैव लक्षणमस्येति स्थानलक्षणोऽधर्मास्तिकायोऽस्ति । स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्येण यो ज्ञायते सोऽधर्मास्तिकाय इति भावार्थः, यच्च जीवादीनां समस्तद्रव्याणां भाजनमाधारभूतं तन्नभ आकाशमुच्यते । तन्नभश्चावगाहलक्षणं । अवगाढुं प्रवृत्तानां जीवपुद्गलानां य आलम्बनरूपो भवति सोऽवगाहः, स एव लक्षणं यस्य तदवगाहलक्षणं नभ उच्यते ।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org