________________
४१०
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-एतदुक्तरूपं ज्ञानदर्शनचारित्रतपसात्मकं मार्गमनुप्राप्ता आश्रिता जीवा गच्छन्ति सुगतिं मुक्तिम् ॥३॥ ज्ञानभेदानाह
तत्थ पंचविहं नाणं, सुयं आभिणिबोहियं ।
ओहिनाणं च तइयं, मणनाणं च केवलं ॥४॥ व्याख्या-तत्र ज्ञानादिषु मध्ये ज्ञानं पञ्चविधं, श्रुतमाभिनिबोधिकं मतिः, अवधिज्ञानं, मन:पर्यवज्ञानं, केवलं च । तत्र श्रुतं शब्दाद् ज्ञानं, मतिरिन्द्रियमनोभवं ज्ञानं, मर्यादया ज्ञानमवधिः, मन:पुद्गलदर्शनान्मनःपर्यवज्ञानं, अन्यज्ञानाऽभावः केवलं, आदौ श्रुतादानं शेषज्ञानस्वरूपज्ञानस्य श्रुतायत्तत्वेन प्राधान्यज्ञप्त्यै । ज्ञानव्याख्यावश्यकदीपिकातो ज्ञेया ॥४॥ ज्ञानविषयमाह
एवं पंचविहं नाणं, दव्वाण य गुणाण य ।
पज्जवाणं च सव्वेसिं, नाणं नाणीहिं देसियं ॥५॥ व्याख्या-एतत्पञ्चविधं ज्ञानं, द्रवन्ति गच्छन्ति तान्स्तान् पर्यायान् इति द्रव्याणि वक्ष्यमाणानि तेषां च गुणानां च सहवर्तिनां रूपादीनां, पर्यायाणां द्रव्येषु गुणेषु क्रमभाविनो जीर्णा मान्द्यास्तेषां ज्ञानं सर्वेषां केवलापेक्षया, सर्वशब्दो द्रव्यकात्स्नर्ये शेषज्ञानापेक्षयाऽनुप्रकारकात्स्न्यें ज्ञेयः, प्रतिनियतपर्यायग्राहित्वात्तेषां ज्ञानमवबोधकं ज्ञानिभिः केवलिभिर्देशितम् ॥५॥
द्रव्यादीनां लक्षणान्याह
गुणाणमासयो दव्वं, एगदव्वस्सिया गुणा ।
लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ॥६॥ व्याख्या-गुणानां रूपरसस्पर्शादीनामाश्रयः स्थानं द्रव्यमस्ति, यत्र गुणा उत्पद्यन्तेऽवतिष्ठन्ते विलीयन्ते च तद् द्रव्यं, इत्यनेन रूपादिवस्तु द्रव्यात् सर्वथा व्यतिरिक्तमपि नास्ति । द्रव्ये एव रूपादिगुणा लभ्यन्ते इत्यर्थः, गुणा हि एकद्रव्याश्रिताः, आधारभूते एकस्मिन् द्रव्ये आधेयतया स्थिता गुणा उच्यन्ते । इत्यनेन ये केचन द्रव्यमेवेच्छन्ति रूपादींश्च तद्व्यतिरिक्तानिच्छन्ति तेषां मतं दूरीकृतं । तस्माद्रूपादीनां गुणानां द्रव्येभ्यो भेदोऽप्यस्ति । तु पुनः पर्यायाणां नवपुरातनादिरूपणां भावानामेतल्लक्षणं ज्ञेयं । किं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org