________________
अष्टाविंशं मोक्षमार्गीयमध्ययनम् ॥ अशठस्य मोक्षमार्गप्राप्तिः स्यादतो मोक्षप्राप्तिविधायकमष्टाविंशतितममध्ययनमाह
मोक्खमग्गगई तच्चं, सुणेह जिणभासियं ।
चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥१॥ व्याख्या-'मोक्खमग्ग'त्ति, मोक्षोऽष्टकर्मोच्छेदस्तस्य मार्गो ज्ञानादिस्तेन गतिः सिद्धिगमनं, तद्धेतुत्वेनोपदेशकथामपि मोक्षमार्गगतिं कथ्यमानां तथ्यां सत्यां शृणुत ! जिनैर्भाषितां, यद्वा मोक्षविषये 'मृजू शुद्धौ' इति धातोर्मार्गो नैर्मल्यं, तस्य गतिं प्राप्ति शृणुत ! चतुर्भिः कारणैर्वक्ष्यमाणैर्मोक्षहेतुभिः संयुक्तां, विशेषणेनास्या मूलोत्पत्तिमाहज्ञानदर्शने विशेषसामान्योपयोगरूपे लक्षणं स्वरूपं यस्याः सा, ताम् ॥१॥
अथ तानि चतुःकारणान्याह
नाणं च दंसणं चेव, चरित्तं च तवो तहा ।
एस मग्गो पन्नत्तो, जिणेहिं वरदंसिहिं ॥२॥ व्याख्या-ज्ञायतेऽनेनेति ज्ञानं, दृश्यते तत्वमस्मिन्निति दर्शनं, चरन्ति गच्छन्त्यनेन मोक्षमिति चारित्रं, तपन्ति पूर्वकर्माणि अनेनेति तपः, तत्र ज्ञानं सम्यग्ज्ञानरूपं, दर्शनं दर्शनमोहनीयक्षयात् क्षयोपशमो[पशमो]त्थमर्हदुक्तजीवादितत्त्वरुचिरूपाऽनन्तानुबन्धिवर्जात्मशुभभावरूपं, चारित्रं चारित्रमोहनीयक्षयादित्रयसामायिकादिभेदं, सदसत्क्रियाप्रवृत्तिनिवृत्ति, तपो बाह्यान्तरभेदं, एष एव मार्गो मुक्तिप्रापकत्वात् प्रज्ञप्तो जिनैर्वरदर्शिभिः, चारित्रभेदत्वेऽपि तपसः पृथगादानं अस्यैव कर्मक्षये निःसमहेतुत्वात् ॥२॥
नाणं च दंसणं चेव, चरित्तं च तवो तहा । एयमग्गमणुप्पत्ता, जीवा गच्छंति सोग्गइं ॥३॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org