________________
४०८
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-वाचिताः सूत्रं तदर्थं च ग्राहिताः, सङ्गृहीताः सम्यक् स्वनिश्रायां रक्षिताः, तथैव भक्तपानेन पोषिताः पुष्टिं नीताः, चाद्दीक्षिताः स्वयं चोपस्थापिताश्च, ततः कार्ये सृते जातपक्षा अतश्च त्यक्तनिजननीजनका हंसा इव तेऽपि कुशिष्या तमेव गुरुं त्यक्त्वा दिशि दिशि प्रक्रमन्ति यदृच्छाविहारिणो भवन्तीति ॥१४||
अह सारही विचिंतेइ, खलुंकेहिं समागओ।
किं मज्झ दुट्ठसीसेहि, अप्पा मे अवसीयइ ॥१५॥ व्याख्या अथोक्तचिन्तातोऽनु सारथिर्धर्मयाने स्खलितवारको गर्गाचार्यः खलुकै १ःशिष्यैः समागतः संयुक्तो विचिन्तयति, किं ? न किञ्चिदित्यर्थः, मे कार्य सिद्ध्यति ऐहिकं पारत्रिकं च एभिः कुशिष्यैः प्रेरितैः, प्रत्युत 'मे' ममात्माऽवसीदति श्राम्यते, तत्प्रेरणाव्यग्रतया स्वकृत्यहानेः, अतो वरमेतत्त्यागेनोद्यतविहारेण मे विहरणम् ॥१५॥
जारिसा मम सीसाओ, तारिसा गलिगद्दहा ।
गलिगद्दहे चइत्ताणं, दढं पगिण्हइ तवं ॥१६॥ व्याख्या-गर्गाचार्यो विचारयति, यादृशास्तु मम शिष्यास्तादृशा गलिगईभाः, अत्र गलिगभशब्दोऽत्यन्तकुत्साज्ञापकः, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणार्थं कालातिक्रमणं निरर्थकमेव । इति विचिन्त्य स गर्गाचार्यो निजात्मकार्यसाधनार्थं गलिगईभानिव तान् दुःशिष्यांस्त्यक्त्वा दृढमनशनादितपः प्रगृह्णाति, तदुःशिष्यपलिमन्थत्यागादिति ॥१६॥
मिउमद्दवसंपन्ने, गंभीरे सुसमाहिए।
विहरइ महिं महप्पा, सीलभूएण अप्पणे ॥१७॥ त्ति बेमि व्याख्या-मृदुर्बहिर्वृत्त्या विनयवान् , मार्दवसम्पन्नश्चित्तेऽपि तादृगेव, गम्भीरोऽलब्धमध्यः, सुष्ठसमाहितश्चित्तसमाधिवान् , विहरत्यप्रतिबद्धविहारेण महीं महात्मा, स गर्गाचार्यः शीलं चारित्रं भूतः प्राप्तः शीलभूतस्तेन शीलभूतेनात्मना सहितः, एवं गुरोरपि खलुङ्कत्यागादेव मार्दवादिगुणवत्तेति खलुङ्कतात्मनो गुरूणां चेहैव दोषहेतुरतस्तत्त्यागतोऽशठतैव सेव्येत्यध्ययनार्थः ॥ इति समाप्तौ, ब्रवीमीति प्राग्वत् ॥१७॥
इति सप्तविंशं खलुङ्कीयमध्ययनमुक्तम् ॥२७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org