SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सप्तविंशं खलुङ्कीयमध्ययनम् ४०७ भीरुन यस्य तस्य गृहे याति, यद्वा अवमानं प्रवेशस्तद्भीरुर्यथा मा मामायान्तं दृष्ट्वाऽन्ये ऋषयो बौद्धाद्या वाऽत्र गृहे आयान्त्विति, एकः कश्चित् स्तब्धो, न निजकुग्रहान्नमयतुं शक्य एव । एकं च दुःशिष्यं कथमिति शेषः, अनुशास्म्यहं हेतुभिः अविनाभावज्ञापकैः, कारणैर्युक्तिरूपैरिति गुरोश्चिन्ता भवतीति भावार्थः ॥१०॥ सो वि अंतरभासिल्लो, दोसमेव पकुव्वइ । आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं ॥११॥ व्याख्या-सोऽप्यनुशिष्यमाणोऽन्तरभाषावान् गुरुवचनान्तरा एव स्वाभिमतप्रकाशको गुरूणां प्रत्युत दोषमेवापराधमेव प्रकरोति प्रकाशयतीति । तथाचार्याणां प्रति, उपलक्षणादुपाध्यायादीनामपि तच्छिक्षावाचि वचनं अभीक्ष्णं पुनः पुनः प्रतिकूलयति वालयति, यथा मां यूयमेव वदथ तर्हि यूयमेवैवं किं न कुरुथेत्यादि ॥११॥ यथा न सा ममं वियाणाइ, न वि सा मज्झ दाहिई। निग्गया होहिई मन्ने, साहू अन्नोत्थ वच्चउ ॥१२॥ व्याख्या-अमुकस्या गृहात् पथ्याद्यानेयमित्यस्माभिरुक्तोऽसौ कुशिष्यो ब्रूते, न सा मां विजानाति, नापि सा मह्यं दत्ते । यदि वा निर्गता गृहादधुना भविष्यतीति मन्ये इति वक्ति, अथवा साधुरन्योऽत्र कार्ये व्रजतु ! किमहमेवैकः साधुरस्मीत्याद्याह ॥१२॥ अन्यच्च पेसिया पलिउवंति, पलिएत्ति समंतओ। रायवेट्ठि व मन्नंता, करिति भिउडि मुहे ॥१३॥ व्याख्या-प्रेषिताः क्वचित् कार्ये (पाठान्तरे-पोषिता वाडाहाराद्यैः) 'पलिउवंति', तदनिष्पादने पृष्टाः सन्तोऽपहनुवन्ते, यथा क्व वयं मुक्ता गता वा ? तत्र न सा दात्री दृष्टा, ततोऽनादायाऽागता वयं, पुनस्ते दुःशिष्याः परियन्ति समन्ततः, न गुरुपार्वे कदापि उपविशन्ति, मा एषां कृत्यं भूयादिति मन्यमानाः, कदाचिद् गुरुणा कृत्यकथने राजवेष्टिमिव मन्यमाना भृकुटी भ्रूभङ्गं मुखेऽन्यान् वपुर्विकारांश्च कुर्वन्ति ॥१३।। वाइया संगहिया चेव, भत्तपाणेण पोसिया । जायपक्खा जहा हंसा, पक्कमंति दिसोदिसिं ॥१४॥ ___ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy