________________
४०६
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-मायी मूओ पतति, निःसत्वमिव स्वं दर्शयन् मस्तकं भूमावास्फाल्य पततीति, क्रुद्धश्चैकः प्रतिपथं गच्छति पश्चाद्वलति, एक कश्चिन्मृतलक्ष्येण मृतस्य लक्षणमादृत्य तिष्ठति निश्चेष्टीभूय पततीत्यर्थः, पुनः कथञ्चित् सज्जीकृत्योत्थापितश्च वेगेन प्रधावति, यथा सारथिस्तं गृहीतुं न शक्नोति ॥६॥
छिन्नाले छिंदई सिलिं, दुईते भंजइ जुगं ।
से वि य सुस्सुयाइत्ता, उज्जुहित्ता पलायइ ॥७॥ व्याख्या-छिन्नालस्तथाविधदुष्टजातिः कश्चिच्छिनत्ति 'सिल्लिं'ति रश्मि बन्धनरज्जु, अन्यो दुर्दान्तो दमितमशक्यो युगं जूसरं भनक्ति, ‘से वि' इति स च दुष्टो बलीबर्दः सुतरामतिशयेन सूत्कृत्य फूत्कारं कृत्वा ‘उज्जुहित्त'ति प्रेर्य स्वामिनं शकटं चोन्मार्गे, स्वयं च पलायते ।।७।। दार्टान्तिकयोजनामाह
खलुंका जारिसा जोज्जा, दुस्सिसा वि हु तारिसा ।
जोइया धम्मजाणंमि भज्जंति धिइदुब्बला ॥८॥ व्याख्या-खलुङ्का उक्तरूपा गावो यादृशाः स्वाम्यसमाधिप्रापणसमिलाभङ्गादिकृतो योज्या योज्यमानाः स्युः, दुःशिष्या अपि हुः एवार्थे, तादृशाः, यतो योजिता धर्मयाने ते भज्यन्ते, दुर्बलधृतयो धर्मानुष्ठानं प्रति ॥८॥ यतः
इड्ढीगारविए एगे, एगित्थ रसगारवे ।
सायागारविए एगे, एगे सुचिरकोहणे ॥९॥ व्याख्या-ऋद्ध्या गौरवं, श्राद्धा आढ्या मे वश्याः, सम्पद्यते चेष्टमुपकरणं मे, इत्याद्यात्मबहुमानरूपमस्यास्तीति ऋद्धिगौरविकः कश्चिदेको न गुरुनियोगे वर्त्तते, रसगौरविकश्चैको ग्लानाद्याहारदानतपसोर्न प्रवर्त्तते, एकश्च कश्चित् सातगौरविकोऽप्रतिबद्धविहारादौ न प्रवर्त्तते, एकश्च कश्चित् कुशिष्यः सुचिरक्रोधनो दीर्घरोषतयैवोचितक्रियासु न प्रवर्त्तते ॥९॥
भिक्खालसिए एगे, एगे ओमाणभीरुए।
थद्धेगं अणुसासंमि, हेऊहिं कारणेहि य ॥१०॥ व्याख्या-एकश्च भिक्षालसो गोचराग्रं न विहर्तुमिच्छति, एकश्च कश्चिदपमान
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org