________________
४०५
सप्तविंशं खलुङ्कीयमध्ययनम् तच्चिन्तनामाह
वहणे वहमाणस्स, कंतारं अइवत्तइ । .
जोए वहमाणस्स, संसारो अइवत्तइ ॥२॥ व्याख्या-वहने शकटादौ, अन्तर्भावितण्यर्थतया वाहयमानस्य सारथेविनीतगवादीन् , कान्तारमरण्यमतिवर्त्तते अत्येति, तथा योगे संयमव्यापारे वाहयमानस्याचार्यादेः सुशिष्यान् संसारोऽतिवर्त्तते सुखातिवर्त्यतया स्वयमेवातिक्रामति, तद्विनीततादर्शनादात्मनो विशेषतः समाधिभावात् ॥२॥ विनीतस्वरूपं ध्यात्वाऽविनीतस्वरूपं ध्यायति
खलुंके जो उ जोएइ, विहम्माणो किलिस्सई ।
असमाहिं च वेएइ, तोत्तए य से भज्जइ ॥३॥ व्याख्या-खलुङ्कान् गलिवृषभान् पुनर्यो योजयति वाहने, सूत्रत्वाद् 'विहम्माणो' विशेषेण प्राजनकेन जस्ताडयन् स क्लिश्यति (पाठान्तरे-क्लाम्यति) अत एव सोऽसमाधिं वेदयति, तोत्रकः प्राजनक: 'से' तस्य च खलुङ्कयोजयितुर्भज्यते ।।३।।
एगं डसइ पुच्छंमि, एगं विंधइ भिक्खणं ।
एगं भंजइ समिलं, एगो उप्पहपट्ठिओ ॥४॥ व्याख्या-ततश्चातिरुष्टः सन् स एकं दशति दशनैर्भक्षयति पुच्छे, एकमन्यं गलि विद्धयत्यारया अश्लीलभाषणादिना च, अभीक्ष्णं पुनः पुनः, यत एको भनक्ति समिला, उत्पथप्रस्थितश्चैकः स्यात् ॥४॥
एगो पडइ पासेणं, निवेसइ निवज्जइ ।
उक्कुद्दइ उप्फिडइ, सढे बालगवी वए ॥५॥ व्याख्या-एकः पतति भूमौ पार्वे, अन्यस्तु निविशते उपविशति, 'निवज्जइ'त्ति शेते, उत्कुईति उच्छलति, 'उप्फिडइ'त्ति मण्डुकवदुत्प्लवते । अन्यः शठो भवति धूर्तत्वमाचरति, अन्यश्च बालगवीमवृद्धां गां व्रजेत्तदभिमुखं धावेत् ।।५।।
माई मुद्धेण पडइ, कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठाइ, वेगेण य पहावइ ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org