________________
४०४
श्रीउत्तराध्ययनदीपिकाटीका-२ य शिष्या दंशमशकजलूकावृश्चिकवच्छास्त्रं पाठयतो गुरुन् पीडयन्ति वाक्यादिना, ते खलुङ्कास्तीक्षणत्वेन मृदवो जलूकावत् , चण्डत्वेन मृदवो दंशादिवत् ॥३||
यथाजे किर गुरुपीडणया, सबला असमाहिकारगा पावा । अहिगरणकारगा वा, जिणवयणे ते किर खलुका ॥४॥[उत्त. नि./गा.४९३]
ये किल गुरुपीडाकारकाः, शबलाः कर्बुरचारित्राः करकर्मादिशबलोपेताः, असमाधिकारकाः विंशत्यसमाधिस्थानकराः, पापा: पापश्रमणलक्षणाः, क्रियावन्तोऽप्यधिकरणकराः कलहकराः, ते किल सत्ये सर्वज्ञवचने सिद्धान्ते खलुङ्का उच्यन्ते ॥४॥
तथापिसुणा परोवतावी, भिन्नरहस्सा परं परिभवंति । ३निव्वयनिस्सीलसड्ढा, जिणवयणे ते किर खलुका ॥५॥ [ उत्त. नि./गा.४९४]
पिशुनाः, परोपतापिनः, भिन्नरहस्याश्छन्नवाक्प्राकटयितारः, निशीथत्वादिप्रकटका वा, परं परिभवन्ति स्वविद्यादिना, निवृताः स्तोकक्रियत्वादल्पविरतयः, निःशीला मूलगुणदोषिणः, नि: श्रद्धा जिनवचनश्रद्धारहिताः, ते खलु सर्वज्ञवचने सिद्धान्ते खलुङ्काः कथ्यन्ते ॥५॥
तम्हा खलुंकभावं, चइऊणं पंडिएण पुरिसेणं । कायव्वा होइ मई, उज्जुसहावंमि भावेणं ॥६॥ [उत्त. नि./गा.४९५ ]
ततः पण्डितेन पुरुषेण खलुङ्कभावं त्यक्त्वा ऋजुस्वभावे भावेन तत्त्वधिया, न तु लोकरञ्जनाय मतिः कर्त्तव्या भवति ।।६।। अथ सूत्रं, शठशिष्यसम्बन्धः
थेरे गणहरे गग्गे, मुणी आसी विसारए ।
आइन्ने गणिभावंमि, समाहिं पडिसंधए ॥१॥ व्याख्या-धर्मे स्थिरीकरणात् स्थविरो, गणं धरतीति गणधरः, गार्यो गर्गसगोत्रः, मनुते प्रतिजानीते सर्वसावद्यत्यागमिति मुनिः, विशारदः कुशलः सर्वशास्त्रेषु , आकीर्ण आचार्यगुणैर्व्याप्तः, गणिभावे आचार्यव्यवस्थितौ स्थित आसीत् , स समाधि कुशिष्यै-स्त्रोटितमपि प्रतिसन्धत्ते आत्मनः ॥१॥
१. गुरुपडिणीआ । २. अहिगरणकारगऽप्पा । ३. निव्विअणिज्जा य सठा इति उत्त० बृ० वृत्ती नि० गा० ४९३।४९४ मध्ये
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org