________________
सप्तविंशं खलुङ्कीयमध्ययनम् ॥ सामाचार्यशठैः पाल्यते, ततोऽशठज्ञप्त्यै सप्तविंशं खलुकाध्ययनं शठस्वरूपवाचकमाह
अत्र नियुक्ति:अवदाली १ उत्तसओ २, जोत्तजुगभंज ३ तोत्तभंजो य ४ ।
उप्पह ५ विप्पहगामी ६, एए खलुंका भवे गोणा ॥१॥ [ उत्त. नि./गा.४८७] शठसाधोः शठगोदृष्टान्तः, यथा
अवदाली सारथिं दशनैरियतीत्यवदाली, शृङ्गेन वा विध्यति १ उत्त्रसकः सारथिस्त्रस्यति २ योत्रबन्धत्रोटकः, युगभञ्जको हठात् ३ तोत्रभञ्जको गलित्वात् ४ उत्पथ: कूटेन उत्पथगामी ५ विपथगामी, पथौ विमुखमसन्मुखमेव चलति ६, एते ईदृशा गावः खलुङ्का उच्यन्ते ॥१॥
तथा काष्ठेन शठोपमा यथाजं किर दव्वं खुज्जं, कक्कडगुरुयं तहा दुरवणामं । तं दव्वेसु खलुंकं, वंककुडिलवेढिमाइद्धं ॥२॥ [ उत्त. नि./गा.४९०]
यत्किल द्रव्यं कुज्जं तथा कर्कशं तथा गुरुकं तथा दुरवनामं कुकाष्ठत्वादुपायैरप्यनाम्यं, तद् द्रव्यं खलुङ्कमुच्यते, वक्रं गाढवक्रं, कुटिलं स्तोकवर्क, वेलैराविद्धं युक्तम् ।।२॥
दृष्टान्ता उक्तास्तान् शिष्येषु योजयतिदंसमसगस्समाणा, जलूगविच्छुगसमा य जे होति । ते खलु होति खलुंका, तिक्खमिओ य चंडमद्दविया ॥३॥ [उत्त. नि./गा.४९२]
१. जलयकविच्छुयसमा । २. तिक्खमिउचंडमद्दविआ । इति पाठः उत्त० बृ० वृत्तौ नि०गा० ४९२ मध्ये ॥ सम्पा.
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org