________________
४०२
श्रीउत्तराध्ययनदीपिकाटीका - २
व्याख्या–ततः पारितकायोत्सर्गः सन् गुरुं द्वादशावर्त्तवन्दनपूर्वकं वन्दित्वा
रात्रिकमतीचारमालोचयेत् यथाक्रमम् ॥४९॥
पक्किमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं ।
काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ॥५०॥
व्याख्या- ततः पदसम्पदासहितं प्रतिक्रम्य निःशल्यः सन् पुनरपि यथोक्तविधिना गुरुं वन्दित्वा, सर्वदुःखविमोक्षणं कायोत्सर्गं पुनः कुर्यात् ॥५०॥ कायोत्सर्गस्थः किं चिन्तयेदित्याह
किं तवं पडिवज्जामि, एवं तत्थ विचितए । काउस्सग्गं तु पारित्ता, वंदई य तओ गुरुं ॥५१॥
व्याख्या- किंरूपं तपो नमस्कारसहितं प्रपद्येऽहमेवं तत्र विचिन्तयेत्, वीरो हि भगवान् षण्मासान् निरशनो विहृतवान् तत्किमहमपि निरशनः शक्तोऽस्म्येतावत्कालं स्थातुमुतनेति । एवं पञ्चमासाद्यपि यावन्नमस्कारसहितं तावत् परिभावयेत् । ततस्तं कायोत्सर्गं पारयित्वा गुरुं द्वादशावर्त्तनेन वन्दयेत् ॥५१॥ एतदुक्तार्थानुवादतः सामाचारीशेषमाह
पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं ।
तवं संपडिवज्जित्ता, करिज्ज सिद्धाण संथवं ॥ ५२ ॥ व्याख्या-पारितकायोत्सर्गः सन् गुरुं वन्दित्वा पूर्वोक्तरीत्या तपः सम्प्रतिपद्येत, यथाशक्त्या चिन्तितोपवासादिप्रतिपत्तिं कुर्यात्, तथा सिद्धानां संस्तवं स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयम् ॥५२॥
अथ फलमाह
,
एसा सामायारी, समासेण वियाहिया ।
जं चरित्ता बहू जीवा, तिण्णा संसारसागरं ॥ ५३ ॥ त्ति बेमि व्याख्या - एषा भगवदुक्ता दशविधसमाचारी समासेन सङ्क्षेपेण व्याख्याता, याः सामाचारीश्चरित्वा बहवो जीवाः संसारसागरं तीर्णाः सन्तीति समाप्तौ ब्रवीमीति प्राग्वत् ॥५३॥ इति षड्विशं सामाचार्याख्यमध्ययनमुक्तम् ॥२६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org