________________
४०१
षड्विंशं सामाचार्याख्यमध्ययनम्
पोरिसीए चउत्थीए, कालं तु पडिलेहए ।
सज्झायं तओ कुज्जा, अबोहंतो असंजए ॥४५॥ व्याख्या-चतुर्थ्यां पौरुष्यां पुनः कालं प्रतिलेख्य प्रतिजागर्य ततः स्वाध्यायं कुर्यात् , परं किं कुर्वन् ? असंयतीन् गृहस्थान् अबोधयन् अजागरयन् , यतः सावधव्यापारव्याकुलगृहस्थजागरणतस्तन्निमित्तभूतो यतिरपि तत्कृतसावधक्रियाभाक् स्यादिति भावः ॥४५।। चतुर्थ्यां कथं स्वाध्यायं कुर्यादित्याह- .
पोरिसीए चउब्भाए, सेसे वंदित्ता तो गुरुं ।
पडिक्कमित्तु कालस्स, कालं तु पडिलेहए ॥४६॥ व्याख्या-चतुर्थ्याः पौरुष्याश्चतुर्थे भागेऽवशेष सति, घटिकाद्वये रजन्या अविष्टे सति गुरुं वन्दित्वा प्रतिक्रम्य कालस्य वैरात्रिकस्य, कालं प्राभातिकं प्रत्युपेक्षेत गृह्णीयाच्च । मध्यमक्रमापेक्ष्यं कालत्रयमुक्तं, अन्यथा ह्युत्सर्गेण चत्वारो जघन्येनैकोऽप्यनुज्ञात एव । कालग्रहणविधिः श्रीआवश्यकदीपिकादिषु ज्ञेयः ॥४६॥
आगए कायवुस्सग्गे, सव्वदुक्खविमोक्खणे ।
काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥४७॥ व्याख्या-तत आगते कायव्युत्सर्गे इति कायव्युत्सर्गसमये सर्वदुःखानां सांसारिकाणां विमोक्षणे मोचके, सर्वदुःखविमोक्षणं कायोत्सर्ग कुर्यात् , अत्र कायोत्सर्गग्रहणेन चारित्रादिशुद्ध्यर्थं कायोत्सर्गत्रयं ग्राह्यं । सर्वदुःखविमोक्षणं इति पुनरुच्चारणं कायोत्सर्गस्यात्यन्तनिर्जराहेतुत्वात् ॥४७॥ रात्रिकोऽतिचारो यथा तत्तृतीयकायोत्सर्गविषयश्चिन्त्यते तदाह
राईयं च अईयारं, चिंतिज्ज अणुपुव्वसो ।
नाणंमि दंसणंमि चरित्तंमि तवंमि य ॥४८॥ व्याख्या-रात्रौ भवं रात्रिकं, चः पूर्ती, अतिचारं चिन्तयेत् , आनुपूर्व्याऽनुक्रमेण ज्ञाने दर्शने चारित्रे तपसि, चाद्वीर्येऽपि, अत्र शेषकायोत्सर्गेषु चतुर्विंशतिस्तवचिन्तनं प्रसिद्धमतोऽत्र नोक्तम् ॥४८॥ तत:
पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । राइयं तु अइयारं आलोएज्ज जहक्कमं ॥४९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org