________________
४००
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-प्राकृतत्वादेवसिकं च पुनरतीचारं चिन्तयेदानुपूर्व्याऽनुक्रमेण प्रातर्मुखे वास:प्रत्युपेक्षणामारभ्यैतत्कायोत्सर्गं यावद् ज्ञाने ज्ञानविषयमतीचारं, एवं दर्शने चैव चारित्रे च तथैव च ॥४०॥
पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं ।
देवसियं उ अइयारं, आलोएज्ज जहक्कमं ॥४१॥ व्याख्या-पारितकायोत्सर्गो वन्दित्वा द्वादशावर्त्तवन्दनेन ततो गुरुं, दैवसिकं त्वतीचारमालोचयेत् प्रकाशयेद्यथाक्रमं लघुवृद्धातीचाराणां साधूनां वा लघुवृद्धानां क्रमेण क्रमाऽनतिक्रमेणेति ॥४१॥
पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं ।
काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥४२॥ व्याख्या-प्रतिक्रम्याऽपराधस्थानेभ्यो निवृत्त्य, मनसा भावशुद्धितो, वाचा तत्सूत्रपाठतः, कायेन शिरोनमनादितो निःशल्यो मायादिमुक्तः, सूचकत्वात् सूत्रस्य, गुरुं द्वादशावर्त्तवन्दनपूर्वं वन्दित्वा क्षमयित्वा च, ततस्तथैव सर्वदुःखविमोक्षणं कायोत्सर्ग चारित्रदर्शनज्ञानशुद्ध्यर्थं व्युत्सर्गत्रयरूपं कुर्यात् , जातावेकवचनम् ॥४२॥
पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं ।
थुइमंगलं च काऊणं, कालं संपडिलेहए ॥४३॥ व्याख्या-ततः पारितकायोत्सर्गस्ततश्च द्वादशावर्त्तवन्दनपूर्वकं गुरुं वन्दित्वा, स्तुतिमङ्गलं सिद्धस्तवरूपं (पाठान्तरे-सिद्धाणं संथवं किच्चा) कालं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागर्ति गृह्णाति च ॥४३।। ततः
पढमं पोरिसि सज्झायं, बिइयं झाणं झियायए ।
तइयाए निद्दमोक्खं तु सज्झायं तु चउत्थीए ॥४४॥ व्याख्या-प्रथमायां पौरुष्यां स्वाध्यायं कुर्यादिति शेषः, द्वितीयायां च ध्यानं पिण्डस्थादिकं धर्मध्यानादिकं च अधीतसूत्रार्थचिन्तनरूपं ध्योयत् , तृतीयायां निद्रामोक्षो निद्रामुत्कलता विधेया, चतुर्थ्यां च पुनः स्वाध्यायं कुर्यात् । पुनः कथनमस्य, पुनः पुनरुपदेष्टव्यमेव गुरुभिः, न प्रयासो मन्तव्य इति ज्ञप्त्यै ॥४४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org