________________
षड्विंशं सामाचार्याख्यमध्ययनम्
३९९ यतीनां तदादाय परमुत्कृष्टमर्द्धयोजनादर्द्धयोजनमाश्रित्य परतो हि क्षेत्रातीतमशनादिः स्यात् , विहरन्त्यस्मिन् प्रदेश इति विहारः क्षेत्रं तं विहरेद्विचरेन्मुनिः ॥३६।।
पोरिसीए चउत्थीए, निक्खिवित्ताण भायणं ।
सज्झायं तओ कुज्जा, सव्वभावविभावणं ॥३७॥ व्याख्या-इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादि कृत्वा भुक्त्वा चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्वकं बद्ध्वा भाजनं पात्रं स्वाध्यायं ततः कुर्यात् सर्वभावानां जीवादीनां विभावनं प्रकाशकम् (पाठान्तरे-सव्वदुक्खविमोक्खणं) ॥३७॥
पोरिसीए चउब्भाए, सेसे वंदित्ता तो गुरुं ।
पडिक्कमित्ता कालस्स, सिज्जं तु पडिलेहए ॥३८॥ व्याख्या-पौरुष्याश्चतुर्थ्याश्चतुर्थभागे शेषे गुरुं वन्दित्वा, ततः स्वाध्यायादनन्तरं कालस्य कालं प्रतिक्रम्य तु पुनः शय्यां वसतिं प्रतिलेखयेत् ॥३८॥ ततश्चपासवणुच्चारभूमि, पडिलेहिज्ज जयं जई।
काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥३९॥ व्याख्या-ततः साधुर्यत्नवान् सन् प्रस्रवणोच्चारभूमिं प्रत्येकं द्वादशस्थण्डिलात्मिकां, चात्कालभूमिं स्थण्डिलत्रयात्मिकां प्रतिलेखयेत् , उक्तं च
अहियासिया उ अंतो, आसन्ने मज्झि दूरे तिन्नि तिन्नि भवे । तिन्नेव अणहियासी, अंतो छच्छच्च बाहिरओ ॥१॥ [ प.व./गा.४४१] एवमेव य पासवणे, बारस चउवीसई तु पेहित्ता ।
कालस्स य तिन्नि भवे, अह सूरो अस्थमुवजाइ ॥२॥ [ प.व./गा.४४२] अन्तर्वसतिमध्ये ६ बहिर्वसतेः ६ उच्चारस्य, एवं १२, एवं प्रस्रवणस्यापि हस्ताद्यन्तरे १२, एवं २४, त्रीणि च कालग्रहणभूमिस्थानमण्डलानि, एवं सप्तविंशतिमण्डलानि कुर्यात् । एवं दिनकृत्यमुक्त्वा रात्रिकृत्यमाह-ततो भूमिप्रतिलेखनान्तरं सर्वदुःखविमोक्षणं कायोत्सर्गं कुर्यात् ॥३९॥
देसियं य अईयारं, चिंतिज्ज अणुपुव्वसो । नाणे य दंसणे चेव, चरित्तंमि तहेव य ॥४०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org