________________
३९८
श्रीउत्तराध्ययनदीपिकाटीका-२ तान्येवाह
वेयण वेयावच्चे, इरियट्ठाए य संजमट्ठाए ।
तह पाणवत्तियाए, छटुं पुण धम्मचिंताए ॥३३॥ व्याख्या-सुब्लोपात् वेदनायै क्षुत्तृट्वेदनानाशाय १ क्षुत्तृड्भ्यां न गुर्वादिवैयावृत्त्यं स्यादिति वैयावृत्त्याय २ इर्यासमित्यर्थाय च ३ संयमार्थाय ४ प्राणप्रत्ययाय जीवितनिमित्ताय ५, अविधिना ह्यात्मनोऽपि प्राणोपक्रमणे हिंसा स्यात् , षष्ठं पुनरिदं कारणं, यदुत धर्मचिन्तायै ६ भक्तपानं गवेषयेदिति । धर्मचिन्ता धर्मध्यानरूपा श्रुतधर्मविषया ॥३३॥
अर्थतत्कारणोत्पत्तौ किमवश्यं भक्तपानं गवेष्यमतान्यथेत्याह
निग्गंथो धिइमंतो, निग्गंथी वि ण करिज्ज छहिं चेव ।
ठाणेहिं उ इमेहिं, अणइक्कमणा य से होइ ॥३४॥
व्याख्या-निर्ग्रन्थो धृतिमान् धर्मचरणं प्रति, निर्ग्रन्थी तपस्विनी, सापि न कुर्याद्भक्तादिगवेषणं, षड्भिश्चैव स्थानैः, तु पुनरर्थे, एभिः किमित्येवमत आह-सूत्रत्वादनतिक्रमणं संयमयोगानां च यस्मात् 'से' तस्य तस्या वा भवत्यन्यथातिक्रमणसम्भवात् ॥३४॥ षट्स्थानान्येवाह
आयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीसु ।
पाणिदयातवहेउ, सरीरवुच्छेयणट्ठाए ॥३५॥ व्याख्या-आतङ्के ज्वारादिरोगे १ उपसर्गे दीक्षादिमोक्षाणार्थं स्वजनादिकृते विमर्शादिहेतोर्वा देवादिकृते २ उभयत्र तन्निवारणार्थं ज्ञेयं, तितिक्षया सहनेन, तया क्वविषययेत्याह-ब्रह्मचर्यगुप्तिषु, ता हि नान्यथा सोढुं शक्याः ३ प्राणिंदयाहेतोः, वर्षादावप्कायादिरक्षायै ४ तपश्चतुर्थादि तद्धेतोश्च ५ शरीरस्य व्यवच्छेदस्तदर्थं, उचितकाले संलेखनामनशनं वा कुर्वन् भक्ताम्बुगवेषणं न कुर्यात् ६ ॥३५॥ भक्तादि गवेषयन् केन विधिना कियत्क्षेत्रं पर्यटेदित्याह
अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए ।
परमद्धजोयणाओ, विहारं विहरे मुणी ॥३६॥ व्याख्या-अपगतशेषमपशेषं समस्तं भाण्डकमुपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येत, विशेषतः प्रतिलेखयेच्च, सामान्यतो ह्यप्रत्युपेक्षितस्य ग्रहणमपि न युज्यत एव ।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org