________________
षड्विंशं सामाचार्याख्यमध्ययनम् निर्दोषामप्येनां कुर्वतो तदाह
पडिलेहणं कुणंतो, मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥२९॥
व्याख्या - प्रतिलेखनां कुर्वन् मिथः कथां करोति, जनपदकथां वा, स्त्र्यादिकथां च ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति वा परं, प्रतीच्छति वा स्वयमालापादिकं गृह्णाति यः ||२९||
पुढवी आउक्काए, तेऊ वाऊवणस्सइतसाणं । पडिलेहणापमत्तो, छण्हं पि विराहगो होइ ॥ ३० ॥
व्याख्या-
- पूर्वोक्तकार्याणि कुर्वन् प्रतिलेखनायां प्रमत्तो मुनिः पृथ्वीकायअप्कायतेजस्कायवायुकायवनस्पतिकायत्रसकायानां षण्णामपि विराधको भवति । यथा कुम्भकारशालादौ स्थितो मुनिः प्रतिलेखनाप्रमादवशाच्चेदम्बुभृतघटादिकमपि प्रालोठ्येत्, तदा तज्जलेनाग्निमृद्वीकन्थ्वाद्याः प्लावनया विराध्यन्ते यत्र चाग्निस्तत्रावश्यं वायुरिति षण्णामपि विराधनं । यदुक्तम्
जत्थ जलं तत्थ वणं, जत्थ वणं तत्थ सासओ अग्गी । तेऊवाऊसहिया, एयं छण्हं पि सह जोओ ॥१॥ [ गा.स./गा.१३७]
३९७
भावतस्तु प्रमत्ततयाऽन्यथापि विराधकत्वमेव ||३०||
पुढवी आउक्काए, तेऊवाऊवणस्सइ तसाणं । पडिलेहणआउत्तो, छण्हं पि संरक्खओ ( आराहगो ) होइ ॥ ३१ ॥ व्याख्या - प्रतिखेखनायामायुक्तः प्रमादरहितः साधुः पृथ्वीकायादीनां षण्णामप्याराधको भवतीति ॥ ३१ ॥
इत्थं प्रथमपौरुषीकृत्यमुक्तं, द्वितीयपौरुषीकृत्यं 'बीइए झाणं झियायइ' इत्यनेन ध्यानमुक्तमेव, उभयं चैतदवश्यं कार्यं, अथ तृतीयपौरुषीकृत्यमाह
तइयाए पोरिसीए, भत्तं पाणं गवेसए ।
छण्हं अन्नयराए, कारणंमि उवट्ठिए ॥ ३२ ॥
व्याख्या–तृतीयायां पौरुष्यां भक्तं पानं च गवेषयेत् । औत्सर्गिकमेतत्, अन्यथा स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणं । " सइ काले चरे" [ द.५-२/६ ] इत्यादि । षण्णां कारणानामन्यतरत्कारणे उपस्थिते समुत्थिते, न तु कारणोत्पत्तिं विनेति भावः ॥ ३२ ॥
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org