________________
३९६
श्रीउत्तराध्ययनदीपिकाटीका-२ यस्यामुभाभ्यां जानुभ्यां बाह्ये उभयोर्हस्तयो रक्षणं सोभयवेदिका ४ यस्यामेकं जानु हस्तमध्ये अपरं जानु च बाह्ये रक्ष्यते सा एकवेदिका ५। एते पञ्चापि वेदिकादोषाः प्रतिलेखनावसरे त्याज्याः । यदुक्तम्
"उद्धृवेइया उवरि जुन्नगाणं हत्थे काऊणं पडिलेहइ, हेट्ठा वा काऊणं, दुहओ वा काऊणं, एगंवा जाणुं, अंतो दोण्हंहत्थाणं करेति, उच्छंगे वा हत्थे काऊण पडिलेहे''त्ति ।।२६।। तथा
पसिढिलपलंबलोला, एगामोसा अणेगरूवधुणा ।
कुणइ पमाणे पमायं, संकिए गणणोवगं कुज्जा ॥२७॥ व्याख्या-प्रशिथिलं यदऽदृढं अनिरायतं वा वस्त्रं गृह्यते, प्रलम्बो यद्विषमग्रहणेन वस्त्रकोणानामालम्बनं, लोलो भूमौ करे वा यत्प्रत्युपेक्ष्यमाणस्य लोलनं, द्वन्द्वे प्रशिथिलप्रलम्बलोलाः, एकामर्शनं एकामर्शा रूढितः स्त्रीत्वं, वस्त्रमध्यप्रदेशं गृहीत्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालं सङ्घर्षणमाकर्षणं । अनेकरूपधुनना सङ्ख्यात्रयातिक्रमेण, युगपदेनकवस्त्रग्रहणतो वा धूनना कम्पना यस्यां साऽनेकरूपधुनना । तथा प्रमाणे प्रस्फोटादिसङ्ख्यारूपे प्रमादं कुर्यात् , यच्च शङ्किते प्रमादतः प्रमाणं प्रति शङ्कोत्पत्तौ अङ्गलिरेखास्पर्शादिनैकद्वित्रिसङ्ख्यात्मकं गणनोपयोगं यथा स्यादेवं कुर्यात् सोऽपि दोष इति सर्वत्र गम्यम् ॥२७॥
उक्तदोषाऽभावे निर्दोषा प्रतिलेखनेत्युक्तं, अथैनामेव भङ्गकद्वारेण साक्षात् सदोषां निर्दोषां किञ्चिद्विशेषाद्वक्तुमाह
अणूणातिरित्तपडिलेहा, अविवच्चा सा तहेव य ।
पढमं पयं पसत्थं, सेसाई उ अप्पसत्थाई ॥२८॥ व्याख्या-अन्यूना ऊना प्रतिलेखना न कर्त्तव्या १ अतिरिक्ता अधिका न कर्त्तव्या २ अविव्यत्यासा, विविधो व्यत्यासो यस्यां सा विव्यत्यासा, न विव्यत्यासा अविव्यत्यासा विपर्यासरहिता, विपरीतत्वेन रहिता ३ इत्यर्थः, एतेषां त्रयाणां भेदानामष्टौ भङ्गा उत्पद्यते, तेषु भङ्गेषु प्रथमं पदं प्रशस्तं प्रथमो भङ्गः समीचीनः, अन्यूना १ अनतिरिक्ता २ अविपर्यासा ३ इत्येवंरूपं प्रथमभङ्गरूपपदं प्रशस्तं निर्दोषत्वात् शुद्धमित्यर्थः, शेषाः सप्तभङ्गास्त्वप्रशस्ताः। अत्र प्रतिलेखनान्यूनताधिक्ये प्रस्फोटनाप्रमार्जने वेलां चाश्रित्य वाच्ये, अविव्यत्यासा पुरुषोपधिविपर्यासरहिता कार्या ॥२८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org