________________
३९५
षड्विंशं सामाचार्याख्यमध्ययनम् जातावेकवचनं, सामान्यतो वस्त्रशब्दाभिधानं वर्षाकल्पादिप्रत्युपेक्षणायामप्ययमेव विधिरिति ज्ञप्त्यै एवाऽभिन्नक्रमः, अत: प्रत्युपेक्षेतैवारतश्च निरीक्षेतैव, न तु प्रस्फोटयेत् , ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्याद्यत् परिशुद्धं सत् प्रस्फोटयेत् तत्स्फोटनां कुर्यात् , तृतीयं च पुनरिदं कुर्याद्यत् प्रमृज्यात् । कोऽर्थः ? प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः । ओघनियुक्त्यादौ पात्रस्य प्रत्युपेक्षा पादपुञ्छने निविष्टस्योक्तास्ति ॥२४|| प्रस्फोटनविधिमाह
अणच्चावियं अवलियं, अणाणुबंधिममोसलिं चेव ।
छप्पुरिमा णव खोडा, पाणीपाणिविसोहणं ॥२५॥ व्याख्या-एवं वस्त्रप्रतिलेखनं कुर्यात् । कीदृशं ? अनतितं वस्त्रं वपुर्यथा स्यात् , अवलितमात्मनो वस्त्रस्य च मोटनं यथा न स्यात् , अनुबन्धेन नैरन्तर्येण युक्तमनुबन्धि, न तथा अननुबन्धि, आन्तर्यसहितमिति, कोऽर्थः ? यथा पूर्वापरप्रस्फोटनज्ञानं स्यात्तथा प्रस्फोटनं कर्त्तव्यमिति भावः, 'अमोसलिं'त्ति सूत्रत्वादनामर्शवत् , तिर्यगूर्वाधो घट्टनं यथा न स्यात् , 'छप्पुरिमा' षट् पूर्वाः पूर्वं क्रियमाणत्वात् तिर्यकृतवस्त्रप्रस्फोटनात्मका: क्रियाविशेषा येषु ते षट्पूर्वाः, नव 'खोड'त्ति क्षोटकाः समयप्रसिद्धस्फोटनात्मका हस्तोपरि कर्तव्याः, पुनः पाणौ पाणितले प्राणानां कुन्थ्वादिसत्वानां विशोधनं (पाठान्तरे-प्रमार्जनं प्रस्फोटनं) त्रिकत्रिकोत्तरकालं त्रिकसङ्ख्यं कर्त्तव्यम् ।।२५।। प्रतिलेखनादोषत्यागार्थमाह
आरभडा सम्मद्दा, वज्जेयव्वा य मोसली तइया ।
पप्फोडणा चउत्थी, विक्खित्ता वेइया छट्ठी ॥२६॥ व्याख्या-आरभटेति विपरीतकरणं, त्वरितं वाऽन्यान्यवस्त्रग्रहणं, 'सम्मद्दा' संमद्देनं रूढित्वात् स्त्रीत्वं, वस्त्रान्तःकोणसम्वलनं उपधेर्वोपरि निषीदनं, वर्जितव्येति सर्वत्र ज्ञेयं । चः पूर्ती 'मोसलि'त्ति तिर्यगूर्ध्वमधो वा घट्टना तृतीया, प्रस्फोटना प्रकर्षेण रेणुयुग्वस्त्रस्य प्रस्फोटना चतुर्थी, पञ्चमी विक्षिप्ता प्रतिलेखितस्य वस्त्रस्य अप्रतिलेखितवस्त्रोपरिमोचनं, अथवा दिक्षु च विलोकनं, षष्ठी प्रतिलेखना वेदिकानाम्नी, तस्या वेदिकायाः पञ्च भेदा इत्थम्ऊर्ध्ववेदिका १ अधोवेदिका २ तिर्यग्वेदिका ३ उभयवेदिका ४ एकवेदिका ५॥
यस्मयामुभयोर्जान्वोरुपरि हस्तयो रक्षणं सोर्ध्ववेदिका १ यस्यां जान्वोरधः प्रचुरं हस्तयो रक्षणं साऽधोवेदिका २ यस्यां तिर्यग्हस्तौ कृत्वा प्रतिलेखनं सा तिर्यग्वेदिका ३
___ Jain Education International 2010_02
For Private & Personal Use Only
- www.jainelibrary.org