________________
३९४
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-तस्मिन्नेव नक्षत्रे गगने आकाशस्य चतुर्थे भागे सावशेषे सति वैरात्रिकं नाम कालं, अपिशब्दात् स्वस्य स्वस्य समये कालं प्रतिलेख्य मुनिः कालग्रहणं प्रति जागर्यं कुर्यात् , ततश्चैतावता प्रथमे प्रहरे प्रादोषिकं कालं गृहीत्वा स्वाध्यायः कर्त्तव्यः, एवमन्येष्वपि ज्ञेयम् ॥२०॥ सामान्येन दिनरात्रिकृत्यमुपदिश्य विशेषत आह
पुव्विल्लंमि चउम्भाए, पडिलेहित्ताण भंडगं ।
गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमोक्खणं ॥२१॥ व्याख्या-पूर्वस्मिश्चतुर्थभागे प्रथमे पौरुषीलक्षणे दिनस्य, प्रत्युपेक्ष्य भाण्डकं वर्षाकल्पादिकमुपधिमादित्योदयसमये, गुरुं वन्दित्वा दुःखविमोक्षणं पापनिवारकं स्वाध्यायं कुर्यात् ।।२१।।
पोरिसीए चउब्भाए, सेसे वंदित्ता तो गुरुं ।
अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥२२॥ व्याख्या-पौरुष्याश्चतुर्थे भागेऽवशिष्यमाणे पादोनपौरुष्यां सत्यां ततो गुरून् वन्दित्वा, अप्रतिक्रम्य कालस्य, चतुर्थपौरुष्यामपि स्वाध्यायस्य विधास्यमानत्वात् , भाजनं प्रतिलेखयत् ॥२२॥ प्रतिलेखनाविधिमाह
मुहपोत्तिं पडिलेहित्ता, पडिलेहिज्ज गोच्छयं ।
गोच्छगलइयंगुलिओ, वत्थाई पडिलेहए ॥२३॥ व्याख्या-मुखपोतिको प्रतिलेख्य गोच्छकं झोलिकोपरिसत्कमुर्णामयं वस्त्रं प्रतिलेखयेत् , प्राकृतत्वादलिभिातो गोच्छो येनायमङ्गलिलातगोच्छको मुनिः वस्त्राणि पटलकरूपाणि प्रतिलेखयेत् प्रमार्जयेच्च ॥२३॥ इत्थं पटलानि गोच्छकेन प्रमृज्य पुनर्यत्कुर्यात्तदाह
उर्दू थिरं अतुरियं, पुव्वं ता वत्थमेव पडिलेहे ।
तओ बिइयं पप्फोडे, तइयं च पुणो पमज्जिज्जा ॥२४॥ व्याख्या-ऊर्ध्वं कायत उत्कुटुकत्वेन स्थित्वाद्वस्त्रतस्तिर्यक्प्रसारितत्वात् , स्थिरं दृढग्रहणेन, अत्वरितं अद्रुतं यथास्यादेवं, पूर्व प्रथमं, 'ता' इति तावद्वस्त्रं पटलकरूपं,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org