________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
४२९ इच्छानिरोधं आहारादिवाञ्छानिरोधं जनयति, इच्छानिरोधं गतश्च जीवः सर्वद्रव्येषु विनीततृष्णोऽत्यन्तदूरीकृततृष्णः सन् शीतलीभूतो विहरति बाह्याभ्यन्तरसन्तापरहितो विचरति ॥१३॥
प्रत्याख्यानकरणादनु यत्र चैत्यानि स्युस्तत्र तद्वन्दनं कार्यमित्युक्तं प्राक्, तच्च स्तुतिस्तवमङ्गलं विना नेति तदाह
_थयथुइमंगलेणं भंते जीवे किं जणयइ ? थयथुइमंगलेणं नाणदंसणचरित्तबोहिलाभं जणयइ, नाणदंसणचरित्तबोहिलाभसंपण्णे य जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराहेइ ॥१४॥
व्याख्या हे भदन्त ! स्तवस्तुतिमङ्गलेन जीवः किं जनयति ? गुरुराह हे शिष्य ! स्तवस्तुतिमङ्गलेन, तत्र स्तवा देवेन्द्रस्तवाद्याः, स्तुतय एकादिसप्तश्लोकान्ताः, प्राकृतत्वाद् व्यत्यये स्तुतिस्तवा एव मङ्गलं भावरूपं, तेन ज्ञानदर्शनचारित्ररूपो बोधिस्तस्य लाभं पूर्णार्हद्धर्माप्ति जीवो जनयति, ज्ञानादिसम्पन्नश्च जीवोऽन्तः भवस्य कर्मणां वा, तस्यान्तस्य क्रियां मुक्तिं, कल्पा देवलोकाः, विमानानि ग्रैवेयकाऽनुत्तराणि तेषूपपत्तिर्यस्यास्ता कल्पविमानोपपत्तिकां, कोऽर्थः ? अन्तरभवे देवत्वफलं परम्परया तु मुक्तिप्रापिकामाराधनां ज्ञानाद्याराधनामाराधयति साधयति । अन्तक्रियाभाजनं च जीवस्तु चतुर्धा तथाहि
कश्चित् प्रपद्यापि श्रामण्यं दीक्षां पालयन्नपि गाढगुरुकर्मत्वात् विशिष्टाऽध्यवसायाऽभावेन कर्मक्षयाऽभावान्न तद्भवे मुक्तिभाग्भवति, किं तु भवान्तरे दीर्घपर्यायावाप्त्या, यथा सनत्कुमारचक्री । तथा च स्थानाङ्गम्
"तत्थ खलु इमे पढमे अंतकिरियावत्थू-महाकम्मे पच्चयाए यावि भवति, समणाउसो ! से णं समणे भवित्ता, अगाराओ अणगारियं पव्वइओ उवट्ठिए नेयाउयस्स मग्गस्स संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठीओ उवहाणवं दुक्खं खवेइ तवस्सी, तस्स णं तहप्पगारो तवे भवति णो तहप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसज्जाए दीहदीहेणं परियाएणं सिज्झइ बुज्झइ मुच्चइ परिणिव्वाइ, सव्वदुक्खाणमंतं करेइ, जहा से सणंकुमारे रायरिसी" ॥ [ ]
अन्यस्तु गुरुकर्मापि व्रतमाप्य कर्मक्षयान्वितो विशिष्टाध्यवशात् तत्रैव भवेऽल्पेनैव कालेन मुक्तिमाप्नोति, यथा गजसुकुमालः, तदुक्तम्
"अहावरे दोच्चे अंतकिरियावत्थू-महाकम्मे पच्चयाए यावि भवति, समणाउसे !
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org