________________
३९०
श्रीउत्तराध्ययनदीपिकाटीका-२ मया वसितव्यमिति । आर्षत्वाद् द्विपञ्चकसंयुक्ता दशसङ्ख्यायुक्ता सामाचारी प्रवेदिता कथिता । (पाठान्तरे-एषा दसंगा साहूणं । सामाचारी पवेइया) ॥७॥ एवं दशधा सामाचारीमुक्तवौघसामाचारीमाह
पुव्विल्लंमि चउब्भाए, आइच्चमि समुट्ठिए ।
भंडयं पडिलेहित्ता, वंदित्ता य तओ गुरुं ॥८॥ व्याख्या-पूर्वस्मिन् किञ्चिदूननभश्चतुर्भागे आदित्ये समुत्थिते प्राप्ते पादोनपौरुष्यां भाण्डकं पतद्ग्रहाद्युपकरणं प्रतिलेख्य सामायिकभाषया चक्षुषा निरीक्ष्य प्रमृज्य च, वन्दित्वा च ततो गुरुमाचार्याद्यम् ॥८॥
पुच्छिज्जा पंजलिउडो, किं कायव्वं मए इह ।
इच्छं निओइउं भंते, वेयावच्चे व सज्झाए ॥९॥ व्याख्या-पृच्छेत् कृतप्राञ्जलिः, यथा किं कर्त्तव्यं मयेहास्मिन् समये, इच्छामि अन्तर्भावितण्यर्थत्वान्नियोजयितुं युष्माभिरात्मानमित्यर्थः, हे भदन्त ! वैयावृत्त्ये ग्लानादिकार्ये स्वाध्याये वा, पात्रप्रतिलेखनानन्तरं गुरुं पृच्छेदिति यदुक्तं तत्प्रायस्तदैव वैयावृत्त्यादिकार्याऽभावात्, यद्वा पूर्वस्मिन्नभसश्चाग्रे आदित्ये समुत्थित इव समुत्थिते बहुप्रकाशीभवनात्तस्य, भाण्डकं धर्मद्रविणोपार्जनहेतुमुखवस्त्रिकावर्षाकल्पादि प्रतिलेख्य गुरुं नत्वा पृच्छेदिति ॥९॥ एवं पृष्ट्वा
वेयावच्चे निउत्तेणं, कायव्वं अगिलायओ ।
सज्झाए वा निउत्तेणं, सव्वदुक्खविमोक्खणे ॥१०॥ व्याख्या-वैयावृत्त्ये नियुक्तेन कर्त्तव्यं वैयावृत्त्यं अग्लान्यैव शरीर श्रममध्यात्वैव, स्वाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे स्वाध्यायोऽग्लान्यैव कार्यः ॥१०॥
उत्सर्गिकं दिनकृत्यमाह
दिवसस्स चउरो भाए, भिक्खू कुज्जा वियक्खणो ।
तओ उत्तरगुणे कुज्जा, दिणभाएसु चउसु वि ॥११॥ व्याख्या-दिवसस्य चतुरो भागान् कुर्याद्भिक्षुर्विचक्षणो बुद्ध्या, ततो बुद्ध्या चतुर्भागकरणादनु उत्तरगुणान् स्वाध्यायादीन् कुर्याद्दिवसभागेषु चतुर्ध्वपि ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org