________________
३८९
षड्विंशं सामाचार्याख्यमध्ययनम्
अब्भुट्ठाणं नवमं, दसमा उवसंपया ।
एसा दसंगा साहूणं, सामायारी पवेइया ॥४॥ व्याख्या-तथेति प्रतिपद्य सर्वकृत्येषूद्यमवता भाव्यमित्यभ्युत्थानरूपा नवमी, उद्यमवता च ज्ञानाद्यर्थाय गणान्तरं गम्यं, तत्रोपसम्पद्ग्राह्येत्युपसम्पत् एषा दशाङ्गा साधूनां सामाचारी प्रवेदिता उक्तार्हदाद्यैः ॥४॥ एताः स्पष्टयति
गमणे आवस्सियं कुज्जा, ठाणे कुज्जा निसीहियं ।
आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा ॥५॥ व्याख्या-गमने आवश्यिकी कुर्यात् , आवश्यकेष्वप्रमत्ततयाऽवश्यकर्त्तव्यव्यापारेषु सत्सु भवावश्यिकी तां, स्थाने उपाश्रये प्रविशन् निषेधः प्रमादेभ्य आत्मनो व्यावर्त्तनं, तत्र भवा नैषेधिकी, तां कुर्यात् , स्वस्य कार्यस्य करणं स्वकरणं तस्मिन् आपृच्छना ज्ञेया, आङिति सर्वकृत्याभिव्याप्त्या पृच्छनं, यथेदमहं कुर्यां न वेत्येवंरूपाापृच्छना, परकरणेऽन्यकार्यविधाने प्रतिपृच्छना, गुरुनियुक्तेऽपि पुनःप्रवृत्तिकाले पृच्छना प्रतिपृच्छना ।।५।।
छंदणा दव्वजाएणं, इच्छकारो य सारणे ।
मिच्छाकारो य जिंदाए, तहक्कारो य पडिस्सुए ॥६॥ व्याख्या-छन्दना शेषयतिनिमन्त्रणा, द्रव्यजातेनाऽशनाद्यैः प्राग्गृहीतैः, इच्छा स्वाभिप्रायस्तया करणं तत्तत्कार्ये निवर्त्तनमिच्छकारः, सारणे इत्यौचित्येनात्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने, तत्रात्मसारणे यथा इच्छाकारे युष्मच्चिकीर्षितं कार्यमिदमहं करोमीति, अन्यसारणे च मम पात्रलेपनादिसूत्रदानादीच्छाकारेण यूयं कुरुतेति । मिथ्या करोमीदमिति प्रतिपत्तिर्मिथ्याकारः, स चात्मनो निन्दायां वितथाचरणे, यथा धिगिदं मिथ्या मया कृतमिति । तथाकारः, इदमित्थमेवेत्यभ्युपगमः प्रतिश्रुते प्रति श्रवणे वचनादीनां गुरोः पार्वात् ।।६।।
अब्भुट्ठाणं गुरुपूया, अच्छणे उवसंपया ।
एवं दुपंचसंजुत्ता, सामायारी पवेइया ॥७॥ व्याख्या-अभीत्याभिमुख्येनोत्थानमुद्यमनमभ्युत्थानं, तच्च गुरुपूजायां, सा च गौरवार्हाणामाचार्यग्लानबालादीनां यथाहारादिसम्पादनं, अत्राभ्युत्थानं निमन्त्रणाभूतरूपमेव ग्राह्यं । 'अच्छणे'त्ति, अस्थाने आचार्यान्तरादिपार्वे उपसम्पत् इयन्तं कालं भवदन्तिके
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org