________________
षड्विंशं सामाचार्याख्यमध्ययनम् ॥ प्रारब्राह्मणा उक्ताः, तद्वांश्च यतिः, तेन च सामाचारी समाचार्येति षड्विशं सामाचार्यध्ययनमाह
सामायारिं पवक्खामि, सव्वदुक्खविमोक्खणिं ।
जं चरित्ता ण निग्गंथा, तिण्णा संसारसागरं ॥१॥ व्याख्या-सामाचारी यतिजनकार्यरूपां प्रवक्ष्यामि, सर्वदुःखविमोक्षणी, यां चरित्वाशसेव्य, णं वाक्यालङ्कारे, निर्ग्रन्थाः संसारसागरं तीर्णा मुक्तिं प्राप्ताः एवं तरन्ति तरिष्यन्ति च ॥१॥ सामाचारीमाह
आवस्सिया य पढमा, बिइया य निसीहिया ।
आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ॥२॥ व्याख्या-व्रतादारभ्य नि:कारणं गुर्ववग्रहे आशातनासम्भवान्न स्थेयं, किन्तु ततो निर्गम्यं, न च निर्गमनमावश्यिकी विनेति प्रथमावश्यिकी, निर्गत्य च यत्रास्पदे स्थेयं तत्र नैषेधिकी कार्येति द्वितीया नैषेधिकी, ततोच्छासं मुक्त्वा सर्वकार्येषु गुरवः पृष्टव्या इति तृतीया आपृच्छना, आपृच्छनायाः प्रवृत्तिकाले पुनः पृष्टव्या गुरव इति चतुर्थी प्रतिपृच्छना ॥२॥
छंदणा पंचमा होइ, इच्छाकारो य छ?ओ ।
सत्तमा उ भवे मिच्छा, तहक्कारो य अट्ठमो ॥३॥ व्याख्या-अट्टनादि कृत्वा नात्मकुक्षम्भरिणा भाव्यं, शेषयतिनिमन्त्रणात्मिका छन्दना कार्येति पञ्चमी, तस्यामपीच्छाकारस्तद्रूपा षष्ठी, स्खलिते मिथ्याकार इति सप्तमी, गुर्वादेशे तथेति तथाकाररूपाऽष्टमी ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org