________________
षड्विंशं सामाचार्याख्यमध्ययनम्
पढमं पोरिसिं सज्झायं, बीयं ज्झाणं ज्झियायइ ।
तइयाए भिक्खायरियं, चउत्थीं भुज्जो वि सज्झायं ॥१२॥ व्याख्या-प्रथमां पौरुषीमाश्रित्येति गम्यं, स्वाध्यायं वाचनादिं कुर्यात् , द्वितीयां पौरुषीमाश्रित्य ध्यानमर्थविषयं मानसादिव्यापारणं ध्यायेत् कुर्यात् , तृतीयायां भिक्षाचर्या भोजनबहिर्गमनादीनि च, 'भुज्जो वि' पुनरपि चतुर्थी पौरुषीमाश्रित्य स्वाध्यायं प्रतिलेखनास्थण्डिलप्रत्युपेक्षणादीनि च कुर्यात् , इत्थं कथनं काले कृष्यादिरिव सर्वानुष्ठानसाफल्यात् ॥१२॥
पौरुषी कथं ज्ञेयेत्याह__ आसाढे मासे दुपया, पोसे मासे चउप्पया ।
चित्तासोएसु मासेसु, तिपया होइ पोरिसी ॥१३॥ व्याख्या-आषाढे मासे आषाढपूर्णिमायां द्विपद्या छायया पौरुषी स्यात् , एवं पौषे मासे चतुःपद्या, चैत्राश्विनमासद्वये त्रिपद्या भवति पौरुषी ॥१३।। शेषमासदिनेषु पौरुष्यानयनविधिमाह
अंगुलं सत्तरत्तेण, पक्खेणं य दुयंगुलं ।
वढए हायए वावि, मासेणं चउरंगुलं ॥१४॥ व्याख्या-सप्तरात्रेण, दिनाऽविनाभावित्वाद्रात्रीणां, ततः सप्ताहोरात्रेण सार्द्धनेति शेषः अङ्गुलं, एवं पक्षेण द्वयङ्गुलं दक्षिणायने वर्द्धते, उत्तरायणे य सार्द्धसप्ताहोरात्रेण अङ्गलं, पक्षेण च द्वयङ्गलं हीयते, मासेन च चतुरङ्गलं । एवं दक्षिणायने वर्द्धते, उत्तरायणे च हीयते । पुनर्यदा केचिन्मासेषु चतुर्दशदिनैः पक्षः स्यात् , तदा सप्तरात्रेणापि अङ्गुलवृद्धिहान्या न कश्चिदपि दोषः ॥१४॥ तानेवाह
आसाढबहुले पक्खे, भद्दवऐ कत्तिए य पोसे य ।
फग्गुणवइसाहेसु य, नायव्वा ओमरत्ताओ ॥१५॥ व्याख्या-एतेषु मासेषु अवमरात्रयो ज्ञेयाः, आषाढे बहुलपक्षे, बहुलपक्षशब्दस्य भाद्रपदादिषु सम्बन्धः कर्त्तव्यः, भाद्रपदे कार्तिके पौषे फाल्गुने वैशाखे कृष्णपक्षे अवमरात्रयो भवन्ति, अवमा उना एकेन अहोरात्रेण हीना इति अवमरात्रयः, रात्रिपदेन अहोरात्रग्रहणं कर्त्तव्यं, एवमेतेषु मासेषु दिनचतुर्दशकः कृष्णपक्षः स्यादिति भावः ॥१५॥
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org