________________
द्वितीयं परीषहाध्ययनम्
दर्शनपरीषहे आषाढसूरिकथा
ओहाविउकामो वि य, अज्जासाढो उ पणियभूमीए ।
काऊण रायरूवं, पच्छा सीसेण अणुसिद्धो ॥१॥ [ उ.नि./गा.१२३] अवधावितुकामो दीक्षां, मुमुक्षुरपि पणितभूमौ हट्टमध्ये वत्साभूमौ । आर्याषाढाचार्या बहुश्रुता बहुशिष्याश्च । गच्छे कालं कुर्वन्तं शिष्यं निर्यामयन्तः स्वर्गतेन भवता में दर्शनं देयमिति चोचुः परं कोऽपि मृतो दर्शनं तस्मै नादात् । एकोऽतीवभक्तः शिष्यो निर्यामितो गाढाग्रहेण तथैवोक्तो नैत् । पश्चाद् गुरुणाऽचिन्ति न किञ्चित् कष्टक्रियाफलं, न परलोकोऽस्ति, ततः स स्वलिङ्गेनैवोत्प्रधावितः । इतस्तेन देवीभूतेन शिष्येण स्वस्थेन गुरुस्वरूपं दृष्ट्वा पथि ग्रामं कृत्वा नाट्यमारब्धं । गुरुस्तत्र तत् षण्मासीं यावदपश्यत्, देवप्रभावात् क्षुधं तृषं च नाज्ञासीत्, तत्संहृत्य तेन ग्राममध्ये एव शून्याध्वनि षट् बालाः सर्वालङ्कारयुताः कृताः, सूरिस्तान् दृष्ट्वैषां भूषणैः सुखं जीविष्यामीति ध्यात्वाद्यं बालमूचेऽर्पय मे तवाभरणानि ! तेनोक्तमहं पृथ्वीकायाख्यो मां च चौरेभ्यो रक्ष ! अथ बलात्तद्भूषणानि लान्तं तं सोऽवग् भगवन्नेकं ममाख्यानं शृणु ! पश्चाद्भूषा लाया:, सूरिर्जगौ शृणोमि । सोऽवक् एकः कुम्भकृन्मृदं खनन् पतत्तयाक्रान्तोऽवक्
जे भिक्खं बलिं देमि, जेण पोसेमि नाइओ ।
सा मे मही अक्कमइ, जायं सरणओ भयं ॥ १ ॥ [ उ.नि./गा. १२४]
यत्सहायेन यथाक्रमं भिक्षुदेवेभ्यो भिक्षां बलिं च ददे, ज्ञातीन् स्वजनान् पोषयामि सा मही मामाक्रामति । अयमिहोपनयश्चौरभयादहं त्वां शरणमेतस्त्वं चैवं विलुम्पसि, ततो ममापि जातं शरणतो भयमिति सर्वत्र भाव्यं । तेन तु तदाभरणान्यादाय पतद्ग्रहे क्षिप्तानि । गतः पृथ्वीकायः, ततोऽप्कायाख्यो बालस्तथैव कृतेऽवक्कथां । तालाचरः पाडलाख्यो गङ्गामुत्तरन् जले ह्रियमाणो जगौ
५१
जेण रोहंति बीयाई, जेण जीवंति कासवा ।
तस्स मज्झे विवज्जामि, जायं सरणओ भयं ॥ १ ॥ [ उ.नि./गा.१२६ ] कासवाः कृषीवलाः, विवज्जामीति विपद्ये । तेन भूषा आदाय सोऽपि मुक्तः । तेज:कायिकाख्यानं--तपस्विनोऽग्निनोटजो दग्धस्तदा स जगौ
महं दिया य राओ य, तप्पेमि महुसप्पिसा ।
ते मे उडओ दडो, जायं सरणओ भयं ॥१॥ [ उ.नि./गा. १२७]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org