________________
श्रीउत्तराध्ययनदीपिकाटीका-१ इमं च एरिसं तं च, तारिसं पिच्छ केरिसं जायं ।
इय भणइ थूलभद्दो, सन्नाइघरं गओ संतो ॥१॥ [उ. नि./गा.१२२ ] एतच्चेदृशं द्रव्यजातं, स चाऽज्ञानेन भ्राम्यति, तच्च तादृशं सौधं प्रेक्षस्व ! कीदृशं जातं जीर्णं !! एवमुक्तो जनो वेत्ति यथा गृहमेतत् पूर्वं लष्टमिदानीं च पतितमिति । एवं स्थूलभद्रप्रभुणान्यरूपेणानित्यतापि दर्शिता । ततोऽसावुपाश्रयं गतः, सुहृच्च स गृहमेत: पत्न्योचे स्थूलभद्रो नो गृहमेत्यैतदूचे । स तत्र खनन् रत्नभृतकलशं लेभे । इति स्थूलभद्रेण ज्ञानपरीषहो न सोढः ।।
___ इह प्रज्ञाऽज्ञानपरीषहयोरयं भेदः-प्रज्ञापरीषहः परप्रश्ने स्यात् , अज्ञानपरीषहस्तु सदैवापूर्णमत्यादिज्ञानेष्वप्यज्ञानेष्वपि । यद्वा प्रज्ञा शास्त्रस्फुरणा, अज्ञानं च त्रिकालवस्त्वज्ञानं। इत्युक्तोऽज्ञानपरीषह: एकविंशः ॥४३॥ यतः
अज्ञानदर्शने सम्यक्त्वे शङ्का स्यात् , सा न कार्येति दर्शनपरीषहमाह
नत्थि नूणं पर लोए, इड्डी वावि तवस्सिणो ।
अदुवा वंचिओ मि त्ति, इइ भिक्खू न चिंतए ॥४४॥ व्याख्या-नास्ति नूनं परलोको भवान्तरं ऋद्धिमिर्पोषध्याद्यास्तपस्विनोऽपि, अदृश्यमानत्वात् । अथवाहं वञ्चितोऽस्मि लोचोपवासादिना देहकष्टानुष्ठानेन भोगेभ्य इति भिक्षुर्न चिन्तयेत् ॥४४॥ यतः
पादरजसा प्रशमनं, सर्वरुजां साधवः क्षणात् कुर्युः । त्रिभुवनविस्मयजनकान् , दद्युः कामांस्तृणाग्राद्वा ॥१॥ [ ] धर्माद्रत्नोन्मिश्रित-काञ्चनवर्षादिसर्वसामर्थ्यम् । उद्गतभीमोरुशिला-सहस्रसंपातशक्तिश्च ॥२॥ [ ] इत्यादिऋद्धिः ।
तथा
अभू जिणा अत्थि जिणा, अदुवा वि भविस्सइ । मुसं ते एवमाहंसु, इति भिक्खू न चिंतए ॥४५॥ व्याख्या-अभूवन् जिनाः सर्वज्ञा, अस्तीत्यव्ययं, सन्ति जिनाः, अस्याध्ययनस्य कर्मप्रवादनामाष्टमपूर्वसप्तदशप्राभृतात् सुधर्मस्वामिना जम्बूं प्रति कथनाच्च तदा जिनाः सन्ति, विदेहापेक्षयाधुनापि । अथवा, अपि सत्ये, भविष्यन्ति जिनाः, एतन्मृषा, ते एवं धर्ममाख्युरिति च मृषा, इति भिक्षुर्न चिन्तयेत् ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org