________________
द्वितीयं परीषहाध्ययनम्
४९ मासिक्यादिकां प्रतिपद्य, एवं क्रिययापि मे विहरतो मासकल्पादिनाऽप्रतिबन्धेन, ज्ञानावृत्त्यादि न निवर्त्तते, इति न ध्यायेत् , अज्ञानपरीषहोऽप्यज्ञानस्य भावाभावाभ्यां द्विधा, ततोऽज्ञानाभावपक्षे त्वेवं-निरर्थकोऽधिकाराद् ज्ञानमदे विरतो मैथुनात् सुसंवृतः, यत् योऽहं साक्षाद्धर्म कल्याणं पापकं वा नाभिजानामि "जे एगं जाणइ से सव्वं जाणइ" [ ] इत्यागमात् , छद्मस्थोऽहमेकमपि धर्मवस्तुस्वरूपं वर्णं च न पूर्ण वेद्मि, छद्मस्थस्य जीवादीनामप्रत्यक्षत्वात् , ततः साक्षाद्वस्तुभासि चेन्न ज्ञानं मे, ततः किं मुकुलितज्ञानेन गर्वः? तथा तपउपधानादिनाप्यछेद्ये छद्मनि घोरे सति को मे ज्ञानगर्वः ? ॥
___ अज्ञानपरीषहेऽशकटापितृसाधुदृष्टान्तः-गङ्गाकूले द्वौ बन्धू दीक्षितौ, तत्रैको बहुश्रुतोऽपरश्चाल्पश्रुतः, यो बहुश्रुतः स शिष्यैः सूत्रार्थनिमित्तमायाद्भिर्दिवा न निर्व्यापारो, रात्रौ च प्रतीच्छकाद्यैः कालेऽपि न स्वप्तुं लेभे । अल्पश्रुतस्तु सर्वां रात्रिं सुखेन शेते । अन्यदा स बहुश्रुतः सूरिनिद्राखेदाद्दध्यौ, अहो मभ्राता सपुण्यो यः सुखं शेते, मन्दभाग्यश्चाहं क्षणमपि स्वप्तुं न लेभे । इति तेन ज्ञानावरणकर्माजि ।।
ततः सोऽनालोच्याप्रतिक्रम्य मृत्वा स्वर्गे गत् ततश्च च्युत्वा भरते आभीरसुतोऽभूत् । यौवने ऊढः, सुता जाता, साऽतीवसुरूपा भद्रकन्यका, अन्यदा स आभीरः पुत्र्या सहान्याभीराणां सार्थेन शकटं घृतभाजनैर्भूत्वा विक्रयार्थं पुरं प्रति चलितः, कन्या च सा शकटमखेटयत् । आभीरास्तद्रूपाक्षिप्तास्तदन:पाइँ स्वानांसि खेटयंतस्तां च पश्यन्त उत्पथेन निजानांस्यभज्जन् । तेन तस्या अशकटाख्याभूत् , तत्पितुश्चाऽशकटापितेति । स तद् दृष्ट्वा वैराग्यात् सुतां विवाह्य तस्यै च सर्वस्वं दत्वाऽदीक्षि । तेन त्रीण्युत्तराध्ययनान्यधीताति, तुर्ये 'असंखय'मित्यध्ययने उद्दिश्यमाने तद् ज्ञानावरणकर्मोदीर्णं, पठतो वर्णमात्रं नैत् । आचाम्लद्वयं जातं । गुरुभिरध्ययनेऽनुज्ञायमानेऽनेन पृष्टं भगवन्नस्याध्ययनस्य को योगः ? तैरूचे यावदिदं नाधीतं तावदाचाम्लानि क्रियन्ते, सोऽदीनस्तपश्चक्रे, एवं तेन द्वादशभिर्वराचाम्लानि कुर्वता 'असंखयं' पठितं, निर्जरितं च शेषकर्म, ततस्तेन श्रुतं क्षिप्रमधीतम्।
परितंतो वायणाए, गंगाकूले पियाऽसगडाए ।
संवच्छरेहिं लद्धं, बारसहिं असंखयज्झयणं ॥१॥ [उ.नि./गा.१२१] एवमज्ञानपरीषह: सह्यः ।
ज्ञानपरीषहाऽसहने स्थूलभद्रो दृष्टान्तः-स्थूलभद्रश्चतुर्दशपूर्वी पूर्वमित्रगृहे गतस्तत्पत्न्या नतः, क्व स गत इति पृष्टे सोचे वाणिज्ये । तद्गृहं च पूर्वं लष्टमासीत्तदा च शटितपतितं चाभूत् । स्थूलभद्रः स्वज्ञानेन स्तम्भाधो निधि ज्ञात्वा हस्तं च तत्र कृत्वोचे
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org